________________
गच्छाचारपइण्णयं
सति देवताविशेषगदितागमानुसारीदं शास्त्रम्, अत उपादेयम्, इत्येवंविधबुद्धिनिबन्धनत्वेन शिष्यप्रवृत्त्यर्थमिदं भवतीति । आह च-'मंगलपुव्वपवत्तो, पमत्तसीसो वि पारमिह जाइ । सत्थिविसेसण्णाणाउ, गोरवादिह पयट्टेज्जा ।।१।।' ननु मङ्गलविकलानामपि बहुतमशास्त्राणां दृश्यते संसिद्धिः श्रोतृजनप्रवृत्तिश्चेति, ततः किमनेनानैकान्तिकेन शास्त्रगौरवकारिणा च मङ्गलेनाभिहितेनेति ? सत्यम्, किन्तु शिष्टसमयपरिपालनार्थमिदं भविष्यति । तथा हि-शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमाना इष्टदेवतानमस्कारपूर्वकं प्रायः प्रवर्त्तन्ते । शिष्टश्चायमप्याचार्य इति शिष्टसमाचारः परिपालितो भवत्विति मङ्गलमभिधेयम् । आह च- 'शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुपालनात् । तल्लङ्घनादशिष्टत्वं तेषां समनुपद्यते ।।१।।' तथा सम्बन्धादीनि श्रोतृजनप्रवृत्त्यर्थमभिधेयानि तथा हि-यद- सम्बद्धं तत्र न प्रवर्त्तन्ते प्रेक्षावन्तो दशदाडिमादिवाक्य इव एवं निरभिधेयेऽपि काकदन्तपरीक्षायामिव एवं निष्प्रयोजनेऽपि कण्टकशाखामर्द्दन इवेति, अतः सम्बन्धादिप्रतिपादनं श्रोतॄणां शास्त्रे प्रवृत्त्यङ्गम् । अथासर्वज्ञावीतरागवचनानां व्यभिचारित्वसम्भवेन सम्बन्धादिसद्भावनिश्चयाभावात् नेतः प्रेक्षावतां प्रवृत्तिरत्र भविष्यति, या पुनः संशयात् प्रवृत्तिस्तां सम्बन्धादिवचनं विनैव भवतीति को निवारयितुं पारयति ? इति न श्रोतृप्रवृत्त्यङ्गं सम्बन्धादिवचनं, सत्यम्, किन्तु शिष्टसमयपरिपालनार्थं भविष्यति । शास्त्रकारा ह्येवं प्रवर्त्तमानाः प्रायः प्रेक्ष्यन्ते इति ग्रन्थकृत् गच्छाचाराभिधप्रकीर्णकं चिकीर्षुर्मङ्गलसम्बन्धाभिधेयप्रयोजनाभिधायिकामिमां गाथामाह
·
नमिऊण महावीरं, तियसिंदनमंसिअं महाभागं । गच्छायारं किंची, उद्धरिमो सुअसमुद्दाओ 11१॥ नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् । गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् ॥ १॥