________________
।। भट्टारकप्रभुश्री५६आनन्दविमलसूरिगुरुभ्यो नमः ।। ।। श्रीगच्छाचारप्रकीर्णकम् ।।
उद्बोधं विदधेऽब्जाना-मिव भव्यशरीरिणाम् । गोविलासैनिजैर्योऽसौ, जीयाद्वीररविश्चारम् ।।१।। पदपद्मं स्वगुरूणां, सदा सदाचारचरणचञ्चूनाम् । नत्वा विदधे विवृत्ति, गच्छाचाराख्यसूत्रस्य ।।२।।
इह तावच्छास्त्रस्यादौ मङ्गलसम्बन्धाभिधेयप्रयोजनान्यभिधातव्यानि, तत्र विघ्नविनायकोपशान्तये शिष्यजनप्रवर्त्तनाय शिष्टसमयपरिपालनार्थं चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादेयम् । तथा श्रोतृजनपवृत्त्यर्थं शिष्टसमयपरिपालनार्थं च सम्बन्धादित्रयं वाच्यम्, तथा हि-इह श्रेयोभूते वस्तुनि प्रवर्त्तमानानां प्रायो विघ्नः सम्भवति श्रेयोभूतत्वादेव, श्रेयोभूतं चेदं, स्वर्गापवर्गहेतुत्वात् । विघ्नोपहतशक्तेश्चशास्त्रकर्तृश्चिकीर्षितशास्त्रासंसिद्ध्याऽभिप्रेतपुरुषार्थस्यानिष्पत्तिाभूदिति विघ्नविनायकोपशमनाय मङ्गलमुपादेयम् । आह च-'बहुविग्घाई सेयाइँ, तेण कयमङ्गलोवयारेहिं । सत्थे पयट्टिअव्वं, विज्जाए महानिहीएव्व ।।१।। ननु मानसादिनमस्कारतपश्चरणादिना मङ्गलान्तरेणैव विघ्नोपघातसद्भावादिष्टसिद्धिर्भविष्यतीति किमनेन ग्रन्थगौरवकारिणा वाचनिकनमस्कारेण इति? सत्यम्, किन्तु श्रोतृप्रवृत्त्यर्थमिदं भविष्यति, तथा हि-यद्यप्युक्तन्यायेन कर्तुरविघ्नेष्टसिद्धिः स्यात्, तथापि प्रमादवतः शिष्यस्येष्टदेवतानमस्काररूपमङ्गलं विना प्रक्रान्तग्रन्थाध्ययनश्रवणादिषु प्रवर्त्तमानस्य विघ्नसम्भवादप्रवृत्तिः स्यान्मङ्गलवाक्योपन्यासे तु मङ्गलवचनाभिधानपूर्वक प्रवर्त्तमानस्य मङ्गलवचनापादितदेवताविषयशुभभावव्यपोहितविघ्नत्वेन शास्त्रे प्रवृत्तिरप्रतिहतप्रसरा स्यात्, तथा देवताविशेषे नमस्कारोपादाने