Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 13
________________ गच्छाचारपइण्णयं सभगवदामन्त्रणश्रीगौतमप्रश्नवाक्यमनुक्तमपि ज्ञेयम् । प्रश्नमन्तरेण निर्वचनस्य प्रायोऽसम्भवादेवमुत्तरत्रापि, तत्र तत्र प्रश्नवाक्यं यथासम्भवि स्वयमेव वाच्यमिति । नन्विदं प्रकीर्णकं केन विरचितमिति ? उच्यते 'महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए गच्छायारं समुद्धिअं ।।१।।' इतीहैववक्ष्यमाणवचनादेवेदमवसीयते । यदुतेदं प्रकीर्णकं श्रीभद्रबाहुस्वामिपादविरचितग्रन्थादिभ्य उद्धृतत्वेन तदर्वाग्भाविना पूर्वान्तर्गतसूत्रार्थधार केण के नाप्याचार्येण विरचितमिति । यथा ज्योतिष्करण्डकप्रकीर्णकं वालभ्यवाचनानुगतेन पूर्वगतसूत्रार्थधारिणा केनाऽप्याचार्येण विरचितम् । उक्तं च श्रीमलयगिरिसूरिपादैस्तत्प्रथमगाथावृत्तौ 'अयमत्र पूर्वाचार्योपदर्शित उपोद्घातः-कोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्य पूर्वगतसूत्रार्थधारकं वालभ्य श्रुतसागरपारगतं शिरसा प्रणम्य विज्ञपयतिस्म, यथा-भगवन् इच्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति, तत एवमुक्ते आचार्य आह-शृणु वत्स ! तावदित्यादि तथा तद्वितीयप्राभृतवृत्तावपि सङ्ख्यास्थानविसदृशत्वमाश्रित्योक्तम्, 'यथाइह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत् । तद्यथा-एको क्लभ्यां, एको मथुरायां, तत्र च सूत्रार्थसङ्घटने परस्परवाचनाभेदो जातः । विस्मृतयोर्हिसूत्रार्थयोः स्मृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानी वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डक-सूत्रकर्त्ता चाचार्यो वालभ्यः, तत इहैदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति' । यथा वा नन्द्यध्ययनं देववाचकेन । उक्तंच श्रीमलयगिरिसूरिपादैरेव तद्वृत्तौ यथा-'तदेवमभीष्टदेवतास्तवादिसम्पादितसकलसौविहित्यो भगवान् दूषगणिपादोपसेवी पूर्वान्तर्गत

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 358