Book Title: Dvadasharnaychakram Part 3 Author(s): Mallavadi Kshamashraman, Labdhisuri Publisher: Chandulal Jamnadas Shah View full book textPage 6
________________ प्राकथनम् अयि नैकविद्याविद्योतितान्तरङ्गाः वाणीनैपुण्यावधीरितत्रिदशाचार्याः साधुसमुदयशिरोऽलङ्कारा धीधनाः सूरयः! भवतां पुरतः सुनिर्मलमेधासम्पत्तिपरिजृम्भमाणमनीषिजनविचारचातुरीसर्वङ्कषकर्कशतर्कालङ्कृताऽऽचार्यश्रीमन्मल्लवादिक्षमाश्रमणपूज्यपादप्रतिभाफलद्वादशविधविध्यादिभङ्गात्मकनयचक्रशास्त्रग्रन्थस्य श्रीसिंहसूरगणिविरचितव्याख्यापरिभूषितस्य पर्यायार्थिकनयप्रभेदान्तर्गतविधिनियमोभयारोभयनियमारात्मकः तृतीयो भागः समुपस्थाप्यते। अत्यन्तदुरवगाहदर्शनपयोराशिसमुन्मथनसमदञ्चितपीयूषरसास्वादपुरस्सरतदीयहालाहलदूरीकरणकारणजैनेन्द्रशासनभेषजावलम्बनोपदेष्ट्राचार्यवोपपादितसाधकबाधकप्रमाणप्रचुरसमुल्लसितस्यास्य नयचक्रशास्त्रस्य विधिनियमोभयन पे उभयनियमनये च वैशेषिकसौगतमतशिक्षणात्मके तत्तत्पूर्वपक्षमतोपपादनाय कटन्दीग्रन्थः प्रमाणसमुच्चयश्च प्रधानतया परिगृहीतो, तत्र कटन्दीग्रन्थः प्रायेण प्रशस्तमतिनाविष्कृतोऽधुना वैशेषिकदर्शनवेदितृणामविदिताभिधानो दरीदृश्यते, न खलूदयनाचार्यादिवैशेषिकदर्शनप्रभावकैरपि कचिदपि तद् ग्रन्थनाम निर्दिष्टम् , केवलमनर्धराघवनाटक एव तन्नाम रावणकर्तृकतया कविना रूपकीकृतमत एवास्माकं परिशोधनकर्मणि तदभावप्रयुक्ताऽनौचिती सम्भाव्येत, प्रमाणसमुच्चयो नाम दिड्नागीयः प्रबन्धोऽपि मुद्रितप्रत्यक्षमात्रपरिच्छेदः पालीभाषायामेव सम्पूर्णो लिखित आस्त इति श्रूयते, ततः कारिकाणामुद्धरणप्रयासो मया नादृतः, न हि ततोऽपि याथातथ्येन समुद्धृता भवन्ति कारिका इति प्रमाणीकर्तुं पार्यते, एकस्य पालीपदस्य छायारूपेणानेकसंस्कृतपदसम्भवात् , तत्रापि तर्क एवाश्रणीयः स्यात् , अतो वयं केवलं टीकाप्रस्तावानुरोधेनैव यावच्छक्यं तावत् प्रतl निष्कासिताः कारिकादयः, तत्र मदीयपरिशोधनानुसारेण पर्यायार्थिकनयप्रभेदसप्तमाष्टमारयोर्मूलकृता परिगृहीतानि परवचनानि आगमानि चेत्थम् अनुमितमूले उपन्यस्तपरवचनान्यागमानि च यथा. अगणिझूसिता अगणिसेविय अगणिपरिणामिता अगणिजीवसरीरेति वत्तव्वं सियत्ति भ० श० ५ उ० २. सू० १५ अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे कौ० उ० २. ११ तैरारब्धे कार्यद्रव्ये नियमत एव गुणान्तरमारभन्ते ( वर्तमानसामीप्ये वर्तमानवद्वा ( पा० अ० ३ या० ३ सू० १३१) । शब्दान्तरार्थापोहं हि खार्थे कुर्वती श्रुतिरभिधत्ते ( आता भंते ! परमाणुपोग्गले णो आता, गोयमा ! सिया आता परमाणुपोग्गला, सिआ णो आता, से केणद्वेणं भंते ! एवं वुच्चइ सिआ आता, सिआ नो आता, गोयमा ! अप्पणो आदिढे आता, परस्स आदिढे णो आता ( भ० श० १३ उ० १० सू० १६-२४) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 430