Book Title: Devi Puranam Author(s): Pushpendra Sharma Publisher: Lalbahadur Shastri Kendriya Sanskrit Vidyapitham View full book textPage 7
________________ भगवत्या: सिंहवाहिन्या लोककल्याणकराणां लीलावताराणां वर्णनमत्र प्रधानतया प्रथितम् । एक ईदृश: कालोऽत्रासीद् यदा समग्रेऽपि भारते शाक्तोपासकानां बाहुल्यमवर्तत । यथाऽधुना बङ्ग-विहारादि प्रदेशेषु शक्त युपासना विशिष्य प्रवर्तते तथैव प्रतिजनं मातृशक्त महिमा पुरा व्यावृतोऽभूत् । भगवत्याश्चतुःषष्टि- पीठानां भारतस्य प्रतिभागं स्थितय एवात्र प्रमाणम् । 'न मातुः परदेवत' - मित्यभियुक्तोक्त्या सकलमपि जगद् मातृभक्तिमात्मनि धारयित्वा तस्याः स्तुत्या, जपेन, होमेन, तपसा वा जीवनं सार्थकीकतु चेष्टते । श्राद्यशङ्कराचार्यस्य भगवत: 'कुपुत्रो जायेत क्वचिदपि कुमाता न भवतीति' भणिति: सर्वदा मातुरुपासनायै प्राणिनमुत्प्रेरयति । अब पुराणे देव्युपासनाया अनेकेषां तान्त्रिक तत्त्वानां समावेशो निःसन्देहं साधकानामानन्दाय सम्पत्स्यते । कामिका - पदमालिनी-अपराजिता मोहिनी-ग्रह-गरुडविद्यानामत्रोपदेशास्तासामुपासना पद्धतयश्च वर्णिता विद्यन्ते । आदित्ययाग-प्रयाग मातृयागादीनां विवेचनानि सिद्धिकराण्यत्रोपदिष्टानि । शिल्पशास्त्रदृष्ट्याऽप्यत्र नानाविधानां शिल्पप्रकाराणां प्रामाणिकानि निर्देशनानि सन्ति । ज्यौतिषशास्त्रीया विषया पि न पराकृताः । ये ये विषया मानव-जीवनोपयोगिनो भवन्ति तेषां सर्वेषां यथोचितं समावेशेन देवीपुराणमिदं विश्वकोश इव विराजत इति कथने नास्त्यतिशयोक्तिः । एतादृशस्य महामहिमशालिनोऽस्य पुराणरत्नस्य बहोः कालादासीद् विद्वत्सु प्रकाशन प्रतीक्षा | बङ्गेषु बङ्गाक्षरैरेवास्य मुद्रणं पुराभवत् परमुत्तरभारतीया अन्य प्रान्तस्थाश्च विद्वांसोऽस्य पठन-पाठ प्रतिसमुत्सुकाः सन्तोऽपि तं लाभ प्राप्तुमक्षमा एवासन् । तामिमां महतीं न्यूनतां पूरयितुं मंदीयसुहृदः श्रीपुष्पेन्द्र कुमार शर्मा (अस्य विद्यापीठस्य भूतपूर्व प्राचार्याः साम्प्रतं च दिल्ली विश्वविद्यालये संस्कृतव्याख्यातार: ) महताऽऽयासेन सुसम्पाद्यास्य विद्यापीठद्वारा प्रकाशनाय प्रयतितवन्त इति सत्यमेव ते धन्यवादार्हाः । सहैवास्य प्राथमिक प्रकाशन- संयोजन - सम्पादन- विधौ विद्यापीठस्यास्य अनुसन्धान विभागेनापि प्रयतितमिति कर्मण्यस्मिन् तस्य योगदानमप्यविस्मरणीयमेव । अस्य विद्यापीठस्य सर्वास्वपि लोकमाङ्गल्यकरीषु प्रवृत्तिषु बलप्रदातारः श्रीदेवनन्दनप्रसादयादवमहाभागा अस्य ग्रन्थस्य भूमिकारूपाशीर्वचनप्रदानेनास्मानुपकृतवन्तस्तथा राष्ट्रिय संस्कृतसंस्थानस्य' निर्देशक : श्रीप्रभातचन्द्रशर्मारणोऽन्ये च सहयोगिनो ये येऽत्र साहाय्यं वितरितवन्तस्तेभ्यः सर्वेभ्योऽपि हार्दिकान् साधुवादान् समर्प्य 'महिला वर्ष' परिसमाप्ति - मङ्गलरूपमिदं विद्यापीठस्य श्रद्धा पाथेयं भगवत्या जगज्जनन्याश्चरणयोः सश्रद्धं समुपस्थापयामि । दि० ५-२-७६ या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ विदुषां वशंवदः डॉ० मण्डन मिश्र: प्राचार्य : प्रधानसम्पादकश्चPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 588