Book Title: Chatusharan Prakirnakam Author(s): Jinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 8
________________ क्रियते १ इत्याह- 'सावज्जे 'त्ति सावद्याः - सपापा इतरे च निरवद्या ये योगाः - कायादिव्यापारास्तेषां यथासङ्ख्यं ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः ॥ २ ॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धि माह दंसणायारविसोही चवीसाय (इ) त्थएण किज्जइ अ । अच्चब्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥ ३॥ 'दंसणे' त्यादि, दर्शनं - सम्यक्त्वं तस्याचारो - निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः- निर्मलता चतुर्विंशतेरात्मनां - जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्या - त्मस्तवो- लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणे 'ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह- 'अच्चब्भुअ' इत्यादि, अत्यद्भुताः - सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां तदित्याह - ' जिणवरिंदाणं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाह - ·Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56