Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 51
________________ ४६ साउच्चगोअ मणुदुगे' त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बध्नाति, शुभाध्यवसायबध्यमानत्वात्तासां तथा ताथ प्रकृतीबद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः-- उत्तरकालफलT: विपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः ॥ ५६ ॥ तथा ता एव शुभप्रकृतीः प्राग्मन्दानुभावाद् बद्धाः -- स्वल्पशुभ परिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीवोऽनुभावो - रसो यासां तास्तीवानुभावा:-- अत्युत्कट रसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाव करोतीत्यपि ज्ञेयं, तथा 'असुहाउ 'ति यावाशुभा 'नाणंतरायदसग' मित्यादिगाथोक्ता व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्ता निर्गतोऽनुबन्धः --उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीब्राः - तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दा:- मन्दरसाः करोति चतुः शरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घ कालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाच करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां ह्राससम्भवात्, वन्दन कदानात् श्रीविष्णोरिवेत्यर्थः ॥ ६० ॥ उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलं; अत एव तदवश्यं कर्त्तव्यमिति दर्शयति

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56