Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 30
________________ २५ तपःसंयमव्यापारेषु प्रवतयन्तो गणतप्तिकराः प्रवर्तका उच्यन्ते, प्रवर्तकव्यापारितार्थेषु सीदमानान साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थ नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, ते च सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु ।। ३२॥ ___ तथा चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येव व्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः, तथा नवपूर्विण श्रीआर्यरक्षितादयः, पूर्वीशब्दः स्थानत्रयेऽपि संबध्यते, तथा 'दुवालस'त्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशाङ्गिनः ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद् , उच्यते, द्वादशमङ्ग दृष्टिवादः, स च परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च, चकारो भिन्नक्रमसूचकः, संप्रति विशेषानुष्ठानिन आह-'जिणकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पःआचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअ'त्ति उदकाः करो यावता कालेन शुष्यति तत् जघन्यं

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56