Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 21
________________ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-'उझि' त्ति, उज्झितानि--त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि--सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा--पीडिता ये सत्त्वाः-प्राणिनस्तेषां शरण्याः--शरणे साधवस्तेभ्यः, यद्वा समाप्तं -निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता--जन्मजरामरणादिदुःखैः पीडिता ये सवास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुयथें षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः--पूर्वोक्तगुणेभ्योऽहद्भ्यो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह अरिहंतसरण-मलसुद्धिलद्ध(सुवि)सुद्ध-सिद्धबहुमाणो । पणय-सिररहअ-करकमल सेहरो सहरिसं भणह ॥२३॥ कम्मलुक्खयसिद्धा साहाविअ-नाणदंसणसमिद्धा । सव्वट्ठलडिसिद्धा ते सिडा हुँतु मे सरणं॥ २४ ॥ तिअलोय-मत्थयत्था परमपयत्था अचिंतसामत्था। मंगलसिद्ध पयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56