Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सद्भूतगुणोत्कीर्तनं वन्दनं-कायिकः प्रणामः तौ अर्हन्तःतयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजा-समवसरणादिकां समृद्धि अर्हन्तः-तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुख-निर्वाणादनन्तरं तदप्यहन्ति-तस्या अपि योग्या भवन्तीत्यहन्तः, शेष पूर्ववत् ॥१५॥ _ 'परमण 'त्ति, परेषां-आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री० सि०अ०८ पा०३ सू० ७') 'वित्यादेशो वा' एतेन अनुत्तरसुराणां मनः-संशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो-मुनयस्तेषामिन्द्राः-गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्रा:शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदहन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथां-दानशीलतपोभावनादिकां कथयितुमर्हन्तः-तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानहत्वाजिनानां, शेषं प्राग्वत् ॥ १६ ॥
'सव्व०' त्ति सर्वे सूक्ष्मवादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामहन्तः तथा सतां हितं सत्य-तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहितत्वातेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां'

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56