Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
पराधस्य तथा 'तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गहादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोषजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः-निमलतेति ॥५॥ 'चरणाइय'त्ति चरणं--चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः--सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां कथंभूतानां -प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामद्धेशुद्धानां वा शुद्धिस्तथैव--प्रागुक्तप्रकारेण क्रियते, केन ?--कायोत्सर्गेण, किंभूतेन ?-'जहकमं वणतिगिच्छत्ति यथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यव्रणः--कण्टकभङ्गादिजनितो भावव्रणस्तु अतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा-प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गणातिचाराः

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56