Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राक् 'नाणाइआ ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ६ ॥ एवं गाथापञ्चकेना[ति]चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहगुणधारणरूवेणं पञ्चक्खाणेण तवइयारस्स । विरियायारस्स पुणो सव्वेहिवि कीरए सोही ॥ ७ ॥
'गुणधारणे' त्यादि, गुणा - विरस्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्माकर्म विवेकस्तस्मादपूर्वकरण म पूर्व करणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइक्कतं' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कार सहिता दिदशप्रत्याख्यानरूप सप्तविंशतिविधेन वा तपआचारातिचारस्य - 'बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियापारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यं --तपोवीर्य - गुणवीर्य - चारित्रवीर्य -- समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिमूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56