Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 7
________________ 'सावज्जे'त्यादि सहावयेन-पापेन वर्तन्ते इति सावद्याः योगा-मनोवाकायरूपा व्यापारास्तेषां विरतिः-निवृत्तिः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, उत्कीत्तनं-जिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्तवेन क्रियते २, गुणा-ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्तिः-भक्तिगुणवत्प्रतिपत्तिः सा वन्दनेन क्रियते ३, स्खलनं स्खलितं-आत्मनोऽतिचारापादनं तस्य निन्दनं-निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्साप्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणा-विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥ १॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाहचारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावज्जेअरजोगाण वजणाऽऽसेवणत्तणओ ॥२॥ ____ 'चारित्ते'त्यादि चारित्रस्य-चारित्राचारस्य पश्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः-निर्मलता क्रियते, केन ?-सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधिः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56