Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 7
________________ चरिताऽनुयोगादेवविज्ञायन्ते । पुण्यपापमूलानि सुखदुःखानीति कथानकाद्विशदीभवति, चरिताऽनुयोगप्रपश्चनेन विनाऽनादिमिथ्यात्व वासिताऽन्तःकरणा ऐदंयुगीनाः प्राणिनोऽल्पमेधायुष्मन्तो धर्माऽधर्मस्वरूपं न विदन्ति । अतश्चरिताऽनुयोगविषयकग्रन्यरचना मति मद्भिः सूरिव/विशेषतोविहिता, सा च संस्कृतादिभाषाप्रतिबद्धा जनोपयोगितामुपैतीति पूर्वाऽऽचार्योक्तिमनुसृत्ययोगनिष्ठाध्यात्मज्ञानदिवाकरशास्त्रविशारदरिपुरन्दरश्रीमद्बुद्धिसागरसूरीश्वरशिष्यरत्ननानाग्रन्थप्रणेतृ कविकुलगुरुप्रसिद्धवक्तृश्रीमदजितसागररिणा व्यरचि विविधाश्चर्यमयकथानकं संस्कृतं शान्तरससुधाकरमिदं श्रीभीमसेननृपचरितम् । सृरिचक्रचक्रवर्तिश्रीमद्यशोभद्रसूरिनिर्मितकथाकोशतः समुन्धृतमिदमित्येतद्ग्रन्थान्तेप्रन्थप्रशस्तौ प्रन्धकāव प्रदर्शितम्___ तत्र के यशोभद्रसूरयः ? कस्मिंश्च समयेकतमद्भूमिभागं पावितवन्त इति विशेषजिज्ञासुभिरन्यस्मानिणेतव्यम् । अस्मिश्चरिते त्रयोदशसर्गाः समुल्लसन्ति, प्रतिस्थलं सर्वेरसा पत्र विनिवेशितास्तत्राऽपि प्रधानतया करुणारसोव्यावर्णितः । अन्तरायकर्मणः प्राबल्याड्रीमसेननरेशोऽनेककष्टान्यसहत । मुनिदानप्रभावाद्वर्द्धमानतपसः प्रभावतश्च सएवनृपतिः पुनः स्वकीयराज्यं प्रतिपद्य मुन्युपदेशतः केवलज्ञानमलभत । पूर्वाचार्विरचितानि भिन्नार्थानि बहूनि भीमसेनचरितानि साम्प्रतमुपलभ्यन्ते, कुत्रचिद्भीमसेनः सुशीला स्वयंवरत्वेनावृणुत इति व्यले खि, स्वप्नावस्थायां प्रियदर्शनायै कुलदेवीपुत्रद्वयबरं प्रादादिति कथान्तरभेदा दृश्यन्ते । सुप्रसिद्धधनेश्वरसूरिविनिर्मितशत्रुञ्जयमाहात्म्यान्तर्गतगिरिनारमाहात्म्ये वर्णिताऽन्तरायकथानकानुसारेण द्वितीयभीमसेननृपकथा संक्षेपतः सूचिता प्रस्तुतपन्थकातद्ग्रन्थान्ते । एतच्चरितस्य रचनासमयस्तुग्रन्थान्ते ग्रन्थकारेण स्वयमेव प्रादर्शि । प्रथमतइदं चरितं संक्षपतो व्यलेखि, ततस्तच्छ्रवणोत्कण्ठितानां महताप्रतिबन्धेन तत्रतत्रचातुर्मास्याममुद्रितमपीदं चरितं सूरी For And Persone

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 230