Book Title: Bhavna Shatak
Author(s): 
Publisher: Jivanlal Chhaganlal Sanghvi

View full book text
Previous | Next

Page 408
________________ ३८१ પ્રમોદ ભાવના श्रद्धातो न चलन्ति कदापि । गृहीतव्रता गुणगेहाः ॥ धन्यास्ते गृहिणो धर्मिणः । त्यक्तान्यायधनेहाः ॥ सद्गुण ॥ ४ ॥ सत्यवादिनो ब्रह्मचारिणः । प्रकृत्या भद्राः सरलाः॥ धन्यास्ते गृहिणोपि गुणाढ्याः। परोपकारे तरलाः ॥ सद्गुण ॥५॥ न्यायोपार्जितम्या पुण्यम् । गुप्तं ये कुर्वन्ति ॥ घ्नन्ति दुःखं दीनजनानाम् । धन्यास्ते भुवि सन्ति ॥ सद्गुण ॥ ६ ॥ भजन्ति ये भ्रातृभावनाम् । रक्षन्ति सनीतिम् ॥ धन्यास्ते मार्गानुसारिणः । पालयन्ति कुलरीतिम् ॥ सद्गुण ॥ ७ ॥ सुखिनो गुणिनो भवन्तु सर्वे । सुहृदो वा स्युरसुहृदः । नश्यन्तु जगतो दुःखानि । सैष प्रमोदो मे हृदः ॥ सद्गुण ॥ ८॥

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428