Book Title: Ashtasahastritatparya Vivaranam Part 1 Author(s): Vairagyarativijay Publisher: Pravachan Prakashan Puna View full book textPage 5
________________ आशीर्वचनम् भगवतां श्रीमताम् अर्हतां शासने वैराग्यमार्ग एव महनीयः, दुःखगर्भ-मोहगर्भ-ज्ञानगर्भवैराग्येषु केवलं ज्ञानगर्भ एव वैराग्यो वास्तवः, नेतरौ । ज्ञानगर्भवैराग्यस्य निर्मितिः भवस्य प्रकृतिदर्शनेन, आत्मनः स्वभावदर्शनेन, धर्मस्य तत्त्वदर्शनेन भवति । तत्रापि धर्मस्य तत्त्वदर्शनं दर्शनशास्त्राणामवगाहनेन सुलभम् । सकलशास्त्रकारशिरोमणिभिः महामहोपाध्यायैः श्रीमद्यशोविजयैः दार्शनिकविचारधारानिर्बद्धा बहवो ग्रन्थाः प्रणीता वर्तन्ते, यैः ज्ञानगर्भो वैराग्यमार्गो लभ्यते । तेष्वेकतमः प्रशस्तो वृत्तिग्रन्थः श्रीअष्टसहस्त्रीतात्पर्यविवरणम् इत्याभिधामादधानोऽयं साम्प्रतं प्रकाश्यतां नीयते - 'श्रीमहोदयसूरिग्रन्थमालायाम्' इत्ययमानन्दावसरः । मनिवरेण श्रीवैराग्यरतिविजयेन दर्शनशास्त्रनिष्णातेन ग्रन्थस्यास्य सम्पादनमत्यन्तं परिष्कृतमाहितमित्येतत्तु नूनं भागद्वयविभक्तस्य परिशिष्टादिविशिष्टस्य ग्रन्थस्य समालोकनेन नितमामनुभूयते । महापुरुषाणां वचसां गौरवं विवर्धयन्नयं प्रयासो मम मनसि अभिलाषमेकं जनयति - यदयं मुनिराजो वितनोतु सदा सर्वदा एवंप्रकारामुत्तमां श्रुतसेवाम् । एतदेव किल आशीर्वचनम् । - विजयहेमभूषणसूरिः वि. सं. २०६०, आषाढशुक्लतृतीया श्रीपालनगरम् मुम्बापुरीPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 450