Book Title: Ashtasahastritatparya Vivaranam Part 1 Author(s): Vairagyarativijay Publisher: Pravachan Prakashan Puna View full book textPage 8
________________ ८ तपागच्छाधीशा अस्मत्प्रगुरुप्रवराः सम्पादकमुनिवरस्य गुरूवर्या आचार्योत्तमाः भगवन्तः श्रीमद्विजयरामचन्द्रसूरीश्वराः पूज्यपादोपाध्यायप्रवराणां वचनेष्वतीव बहुमानं वहन्तः आसन् । लालायिता इव ते महोपाध्यायप्रवराणां वचांसि पीयमानाः, पदे पदे तद्वचनान्याश्रित्योपदेशधारां प्रवाहयन्तश्च दृष्टा अस्माभिर्नैकवारान् । यदि ते तेजोऽधिनाथाः सम्पादनमिदमदर्शिष्यत् तदा अपूर्वां मुदं वहन्तः सम्पादकमुनिवरमान्तरैराशिषैरभिप्लावयिष्यत् । सबाह्याभ्यन्तरस्यास्य ग्रन्थस्य परिचयः सम्पादकेनैव प्रस्तुत इति नात्र तद्विस्तरः प्रतन्यते । अङ्गुलिनिदर्शनमात्रेणापि श्रुतभक्तिभाजनभाग्यवन्तोऽभूमः तेनैव धन्यं मन्यामहे निजात्मानम् । भगवदुपदिष्टं श्रुतधरैः रक्षितं, सूरिवरैः प्रकाशितार्थं च श्रुतनिधिमवलम्ब्य निराग्रहा, निरहङ्कारा निरपेक्षाश्च सन्तः जिज्ञासवो ग्रन्थमिदम् अध्ययेयुः तद्द्वारा च सर्वाङ्गसुन्दरां कैवल्यलक्ष्मीमपवाप्नुयुरिति शुभमभिलषति तपागच्छशिरोमणीनां पूज्यपादाचार्यप्रवरश्रीमद्विजयरामचन्द्रसूरीश्वरविनेयाजीवनगुरुचरणरत-वर्धमानतपोनिधि- आचार्यदेव श्रीमद्विजयगुणयशसूरीश्वराणां विनेयः श्री भोरोलतीर्थे उपधानतपोमालारोपणावसरे विक्रमस्य द्विसहस्राधिकषष्ठितमे संवत्सरे माघमासस्य शुक्लपञ्चमीतिथौ विजयकीर्तियशसूरिःPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 450