Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 19
________________ १९ तच्छिष्याः पण्डितश्रीनयविजयाः, तेषां शिष्याः महोपाध्यायश्रीयशोविजयगणिवराः ॥ सर्वतोमुखीप्रतिभासम्पन्नानां न्यायाचार्याणां मुख्यं जीवनकृत्यमासीत् ग्रन्थनिर्माणम् । प्रायः सर्वेषु प्रचलितेषु विषयेषु तेषां लेखिनी अप्रतिहतप्रसरा प्रवाहिनीवासीत् । विशेषतः नव्यन्यायशैलीमण्डिते दार्शनिकक्षेत्रे वादबहुलाः ग्रन्थाः तेषां सारस्वती कीर्तिं गायन्तो विराजन्ते । कानिचित् नामानि अत्र प्रस्तूयन्ते । (१) नयोपदेशः, (२-३) नयामृततत्त्वतरङ्गिणी टीकोपेतः, (४-५) महावीरस्तवः न्यायखण्डनखाद्यटीकोपेतः, (६) उत्पादादिसिद्धिटीका, (७) तत्त्वार्थसूत्रप्रथमाध्यायविवरणम्, (८-९-१०) स्याद्वादरहस्यम् लघुमध्यमबृहदितित्रयात्मकम्, (११) पातञ्जलयोगसूत्रटीका, (१२) काव्यप्रकाशवृत्तिः, (१३) न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका, (१४) अनेकान्तव्यवस्थाप्रकरणम्, (१५) अस्पृशद्गतिवादः, (१६) आत्मख्यातिः, (१७) जैनतर्कभाषा, (१८) ज्ञानबिन्दुः, (१९) तिङन्वयोक्तिः, (२०) सप्तभङ्गीनयप्रदीपः, (२१) नयरहस्यम्, (२२) न्यायालोकः, (२३-२५) वादमालात्रयम्, (२६) विषयतावादः, (२७) स्याद्वादकल्पलता, (२८) अष्टसहस्रीतात्पर्यविवरणमित्यादि । पूज्यपादोपाध्यायप्रवरैः रचितानां बहुधा कालकवलितानां ग्रन्थानां सङ्ख्या इदानीं वक्तुमशक्या । सम्प्रत्युपलभ्यमानानां सङ्ख्या अशीत्यधिकम् वर्तते । दार्शनिकक्षेत्रे तद्विरचितेषु ग्रन्थेषु मूर्द्धाभिषिक्ताः त्रयो ग्रन्थाः । स्याद्वादकल्पलता, (शास्त्रवार्तासमुच्चयटीका) न्यायखण्डनखण्डखाद्यम् (महावीरस्तवटीका) अष्टसहस्रीतातात्पर्यविवरणं च । प्रशस्तिदर्शनेन अष्टसहस्रीतातात्पर्यविवरणं विक्रमात् १७१८ सङ्ख्यवर्षानन्तरं रचितमिति निःशङ्कम् । अष्टसहस्रीतात्पर्यविवरणे स्वरचित पञ्चदशानां ग्रन्थानामुल्लेखः श्रीमद्भिरुद्धरणरूपेण कृतः । तद्यथा अध्यात्ममतपरीक्षा, अनेकान्तप्रवेशः (अमुद्रितः), अनेकान्तव्यवस्था, आत्मख्यातिः उपदेशामृततरङ्गिणी (अमुद्रिता), ज्ञानबिन्दुः, ज्ञानसारः, तत्त्वार्थसूत्रप्रथमाध्यायटीका, नयरहस्यम्, नयोपदेशः, नयामृततत्त्वतरङ्गिणी, भाषारहस्यम्, वादमाला, स्याद्वादकल्पलता, स्याद्वादरहस्यञ्च । (अनेकान्तप्रवेशः, उपदेशामृततरङ्गिणी च सम्प्रति नोपलभ्येते, द्वितीयस्य तु नामापि प्रथमवारमत्रैव प्राप्यते ।) एवम् अष्टसहस्रीतात्पर्यविवरणस्य रचना उपर्युल्लिखितग्रन्थरचनानन्तर्भाविनीति । प्रतिमाशतके च अष्टसहस्रीविवरणस्योल्लेखो दृश्यतेऽतः विवरणं तद्पूर्ववति इति ज्ञेयम् । तात्पर्यविवरणस्य वैशिष्ट्यम् : (१) अष्टसहस्रीतात्पर्यविवरणम् दिगम्बरग्रन्थोपरि रचिता प्रायः प्रथमैव टीका श्वेताम्बरसम्प्रदाये । स्वस्य दिगम्बरकर्तृकग्रन्थविवरणे हेतुश्च विवरणकारैः प्रस्तावनाश्लोकेष्वेव दर्शितः स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात् कश्चिद् दृष्टिवादार्णवोत्थः । तद्व्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 450