Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 17
________________ १७ साक्षात्कृतसकलस्याद्वादाभिप्रायेण लालिता पालिता अष्टसहस्त्रीतया पुष्टिं नीता । देव ! स यदि नापालयिष्यत् कथं त्वामद्राक्षम् ?' इति । आचार्यश्रीविद्यानन्दस्वामिनः शैली प्रौढापि विस्तृता । अष्टसहस्रीं विवृण्वन् स अष्टशती स्वीयवृत्तावेव समावेशयति, परमतकृताक्षेपखण्डनेऽकलङ्कदेवमनुसरति, अनेकान् प्रवादान् सूक्ष्मप्रज्ञया समालोचयति, परमतस्थितान् दोषान् उद्घाटयति, परोपस्थापितान् दोषान् तीक्ष्णेन तर्ककुठारेण निर्दयमवच्छिनत्ति । विषमेन युक्ति-प्रयुक्ति-प्रत्युक्तिजालेन च निबद्धेयमष्टसहस्री कष्टसहस्री एवेति विद्यानन्दस्वामी स्वयमेवोद्घोषयति । समयस्तस्य विक्रमस्य नवमं शतकम् (ई० ७७५-८४०) इत्यैतिह्यविदो विदुः । विषयदर्शनम् : अष्टसहस्रयाः अतिविस्तृतो दुरूहश्च प्रथमः परिच्छेदो 'व्याघ्रमुखाः ग्रन्थाः' इत्यभियुक्तोक्ति स्मारयति । नैकेऽर्थगम्भीराः विषया अस्मिन् विमृष्टाः वृत्तिकारेण । आप्तमीमांसायाः प्रस्तावनाश्लोकेषु (श्लो० १-७) एव वृत्तेः विषयविस्तारः प्रवर्तते । तत्र नियोगवाद-भावनावाद-विधिवादानां खण्डनं मुख्यो विमर्शः । वेदैकप्रामाण्याभ्युपगन्तृणां मीमांसकानां मते 'यजेत' इत्यादि वाक्येषूपस्थितस्य लिङादिशब्दवाच्यस्याऽऽख्यातस्य प्रेरकत्वं स्वीक्रियते । तत्र विप्रतिपद्यन्ते मीमांसकाः । प्राभाकरा: आख्यातस्य अर्थरुपेण नियोगं स्वीकुर्वन्ति । भाट्टा भावनाम् अन्ये च विधिम् । अत्र वृत्तिकृता प्राभाकराभिमतनियोगपदस्यैकादशार्थाः प्रदर्शिताः । परस्परं च वादमाध्यमेन तेषां खण्डनं प्रस्तुतम् । चार्वाकाभिमतः तत्त्वोपप्लववादः प्रथमपरिच्छेदस्यान्यो ध्यानाकर्षको विमर्शः । शून्यवादसदृशोऽयं वादः प्रायो जयराशिभट्टकृततत्त्वोपप्लवसिंहनामके ग्रन्थे दृश्यते । मीमांसासूत्रश्लोकवार्तिके कुमारिलभट्टेन सर्वज्ञास्तित्वम् निराकृतम् । आचार्येण प्रबलाभियुक्तिभिः तन्मतं निर्लोठितम् । द्वितीये परिच्छेदे ब्रह्माद्वैत-शब्दाद्वैत-विज्ञानाद्वैत-चित्राद्वैतशून्याद्वैतरूपपञ्चविधाद्वैतवादस्य निराकरणं प्रस्तुतमाचार्येण । तृतीयादिषु च नित्यानित्यबैकान्तादिविषयपरीक्षणं महता कौशलेन कृतमिति वृत्तिदर्शनेनैवा वगमिष्यन्ति विद्वांस इत्यलमतिपल्लवितेन । अष्टसहस्त्रीतात्पर्यविवरणम् : अष्टसहस्रयाः रचनानन्तरं नवशतवर्षेषु व्यतीतेषु वैक्रमीये अष्टादशशततमे शतके न्यायविशारदन्यायाचार्यमहोपाध्याय श्रीमद्यशोविजयगणिभिरष्टसहस्री पाण्डित्यपूर्णेन तात्पर्यविवरणेन विभूषिता । नव्यन्यायशैलीबद्धम् अष्टसहस्रीतात्पर्यविवरणम् श्लोकसङ्ख्यया अष्टसहस्रीतुल्यमेव । तदुक्तं विवरणप्रारम्भे


Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 450