Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 15
________________ प्रणिनाय' इति । इदमत्र साधितम् दिगम्बरै: १५ आमोक्ष० इत्यादि श्लोकः भगवदुमास्वामिरचितः । (ब) श्वेताम्बराम्नाये प्रचलितस्य तत्त्वार्थाधिगमभाष्यस्य कर्तृता नोमास्वामिभगवतः । अत्र प्रतिविधीयते-प्रथमं तावत्, श्रीसमन्तभद्रस्वामिभिः गन्धहस्तिभाष्यं रचितमित्यत्र न किमप्यैतिहासिकं प्रमाणम्, येन आप्तमीमांसायाः तदन्तर्गतत्वस्थापनं युज्येत । द्वितीयम्, मोक्ष॰ इत्यादि श्लोकस्य वाचक श्रीउमास्वातिकर्तृकतापि विरुद्धा । यद्ययं श्लोकः तत्त्वार्थसूत्रीयः स्यात् तर्हि पूज्यपाद - अकलङ्कदेवादिभिः सर्वार्थसिद्धितत्त्वार्थश्लोकवार्तिकादौ स्वीयव्याख्यानेऽवश्यं व्याख्यातः स्यात् । न हि व्याख्यातारः मङ्गलश्लोकमेव व्याख्याने विस्मरन्ति । वस्तुतः मोक्ष० इत्यादि श्लोकः पूज्यपादविरचिततत्त्वार्थसर्वार्थसिद्धिटीकायाः मङ्गलाचरणम्, अत एव पूज्यपादाकलङ्कदेवयोस्तदव्याख्यानमपि सङ्गच्छते । यद्यपि पं० श्रीदरबारीलाल कोठिया- पं० श्री उदयचन्द्र जैनप्रमुखाः दिगम्बरा विद्वांसः आ० श्री विद्यानन्दवचनानि प्रमाणरूपेणोपस्थापयन्ति । तद्यथा शास्त्रवताररचितस्तुतिगोचराप्त मीमांसितस्तुतिरलङ्क्रियते मया । (अष्टसहस्री) इति तत्त्वार्थशास्त्रादौ मुनीन्द्रस्तुतिगोचरा । प्रणीताप्तपरीक्षेयं विवादविनिवृत्तये ॥ ( आप्तपरीक्षा) इति । तथापि तत्रापि बाधकप्रमाणं तदेव, आ० श्रीविद्यानन्दस्वामिनोऽर्वाग्वर्तिनो दिगम्बराचार्या नैनं श्लोकं तत्त्वार्थसूत्रीयं प्रतिपादयन्ति । एतेन तत्त्वार्थाधिगमभाष्यं नोमास्वामिप्रणीतमित्यपि प्रत्युक्तं, भाष्यकारिकाया एव पारिशेष्यात् सूत्रमङ्गलत्वसिद्धेः । बृहद्वृत्तिसहितसभाष्यतत्त्वार्थाधिगमसूत्रप्रस्तावनायां पं० हिरालाल कापडिया महोदयेन महता प्रबन्धेन भाष्यस्यैव प्राचीनत्वमपि साधितम् । श्रीसमन्तभद्रसमयः आ० श्री समन्तभद्राणां समयनिर्णयेऽपि न मतैक्यम् । मा० लेविस राइस महोदयमतेन स्वामीसमन्तभद्रसमयः ईसवीया प्रथमा द्वितीया वा शताब्दी । पं० श्री जुगलकिशोरमुख्तारमतेन द्वितीया तृतीया वा ईसवीया शताब्दी । भारतीयदार्शनिकविश्वकोशे (Ensyclopedia of Indian Philosophy) कार्लपोट्टरमहोदयैः समन्तभद्राणां समयः बौद्धविदुषः धर्मकीर्तेरुत्तरं (ईसवीय ६३५) ईसवीयं ६५० तमं वर्षं प्रतिपादितः । पुरातत्त्वविद्यासमुद्राः प्रो० मधुसूदनढांकीमहोदयास्त्वेवमाचक्षते 1- आ० श्री समन्तभद्रस्वामिनः वाचकश्रीउमास्वाति-आचार्य श्रीसिद्धसेनदिवाकरसूरिप्रभृतेरनन्तराः आचार्य श्रीदेवनन्दिनः पूर्ववर्तिन

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 450