Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 18
________________ १८ विषमामष्टसहस्त्रीं अष्टसहस्रया विवेचयति । (पत्र-१) तात्पर्यविवरणेन सहितेयमष्टसहस्री, तदुभयमण्डिता च आप्तमीमांसा, इति नव्यन्यायप्राचीनन्याययोरत्र प्रीतिसङ्गमः । अत एव ग्रन्थोऽयं परिपूर्णः तीर्थतुल्यः । महोपाध्यायश्रीयशोविजयजीगणिवरः अष्टसहस्रीतात्पर्यविवरणकर्तृणामुपाध्यायप्रवराणां जन्मतिथिरद्यावधि न निश्चिता । जन्मवर्षं तु विक्रमात् अशीत्यधिकषोडशशतवर्षात् (वि० सं० १६८०) प्रागित्यैतिह्यविदामभिप्रायः । गुर्जरदेशस्याणहिलपुरपत्तन (पाटण) समीपवति 'कन्होडा' ग्रामे सौभाग्यदेवीकुक्षितः तेषां जन्म । विक्रमात् १६८८ तमे वर्षे निजाग्रजपद्मसिंहसमन्वितस्य जसवंतस्य श्रीनयविजयगुरुपादान्ते प्रव्रज्यास्वीकारः । वि० सं० १६९९ तमे वर्षे सभासमक्षमष्टावधानप्रयोगसम्पादनं विहितम् । तत्क्षयोपशमाकृष्ट धनजीसूराख्यश्रेष्ठिसाहाय्येन स्वगुरुभिः सह नव्यन्यायशास्त्राध्ययनार्थं काशी प्रति प्रस्थिताः तत्र च सप्तशताधिकविद्यार्थीगणपाठकानां भट्टाचार्याणां समीपे वर्षत्रयं यावद् नव्यन्यायस्याभ्यास: सम्पादितः, विशेषतः तत्वचिन्तामणिग्रन्थस्य । तदुक्तं तैरेव तृतीये परिच्छेदे कृत्वा यत्नमनेकपण्डितवतीमध्यास्य काशीमभूद् भट्टाचार्यपुरन्दरेभ्य इह यस्तर्केष्वधीतं भृशम् ॥ (पत्रम्-५२५) सिताम्बरशिरोमणिविदितचारुचिन्तामणिः । (पत्रम्-१) तत्रैवोपस्थिते वादे लब्धविजयेभ्यः काशीस्थविद्वत्परिषदा 'न्यायविशारद पदम् समर्पितम्, अध्यापकभट्टाचार्यैश्च शताधिकनव्यन्यायपरिमण्डितग्रन्थरचनाकृष्टचित्तेन 'न्यायाचार्य' पदम् । तदुक्तम् पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः ॥ न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ॥ पूज्यानाममीषां काश्यामेव गङ्गानदीतीरे सरस्वतीबीजमन्त्रजापसाक्षात्कृतश्रुतदेवतावरप्राप्तिः । तदुक्तम् ऎकारजापवरमाप्य कवित्ववित्त्व वाञ्छासुरद्रुमुपगङ्गमभरङ्गम् । (महावीरस्तवः) काशी विहृत्याऽऽग्रानगरे वर्षचतुष्टयं विशेषाभ्यासं विधाय पुनरागतैरमदावादराजनगरे विक्रमात् १७१८ तमे वर्षे महोब्बतखां समक्षं (प्रा०जयंतकोठारीमहोदयमतेन साइस्तखांसमक्ष) अष्टादशावधानानां प्रयोगः सम्पादितः । अस्मिन्नेव वर्षे श्रीविजयप्रभसूरीश्वराज्ञया वाचकपदालङ्करणं सञ्जातं, विक्रमात् १७४२ तमे वर्षे दर्भावत्यां अनशनपूर्वकम् अलकापुरीम् अलङ्कृतवन्तः । स्वरचितग्रन्थप्रशस्तिषु ते स्वकीयां गुरुपरंपराम् एवं दर्शयन्ति । अकब्बरसुरत्राण प्रतिबोधकश्रीहीरविजयसूरीश्वराणां शिष्याः पण्डित श्रीकल्याणविजयाः, तच्छिष्याः पण्डितश्रीलाभविजयाः,

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 450