Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 10
________________ (१) (२) (३) (8) (4) (६) (७) (८) (९) १० प्रथमं तावत् पाठशुद्धिर्विहिता । सन्दिग्धा अशुद्धा वा पाठा आदर्श (ह० प्र०) प्रत्यनुसारेण सुधारिताः । ते च सङ्ख्यया कियन्त इति न गणितम्, यतो न सम्मार्जितपाठानां सङ्ख्या परिष्कृतसम्पादनस्य मुख्यो मानदण्ड अपि तु सम्मार्जनमेव । अत एव सम्मार्जितपाठानां न पृथगुल्लेखः कृतः । क्वचिदनिर्णये सन्दिग्धपाठसमीपमेव ( ) पाठः अर्धवर्तुलाकारके कोष्ठके स्थापितः । मुद्रणाकृतिप्रारुपसङ्कल्पनानन्तरं (Layout Designing) पुनरपि द्वितीयवारं पाठसम्मार्जनं कृतम् । ततो विवरणगतानां पूर्वोत्तरपक्षाणां व्यवस्थानं विहितम् । पूर्वपक्षीयम् 'अथ' 'ननु' 'स्याद्' इत्यादि पूर्वपदं 'चेद्' - इत्याद्यन्त्यपदं च पृथुवक्राक्षरसंयोजनेन ( Italic-Bold Font) आकारितम् । अवान्तरपूर्वपक्षसहितः पूर्वपक्षोऽधोरेखया (Underline) सहितेन पृथुवक्राक्षरसंयोजनेनाऽऽकारितः । यत्र पूर्वपक्षः नन्वादिपदं विनैवारभ्यते तत्रादौ कोष्ठके सङ्केतः न्यस्तः, (शं०) (समा० ) इत्यादिरूपः । द्वितीयमुद्रणादर्शसंशोधन (Proof Checking) समये विवरणकृदुपनिबद्धवादानां शीर्षकाणि समायोजितानि । आर्यिका श्रीज्ञानमतीगणिनीसम्पादितपुस्तकीयपाठात् विवरणकृत्सम्मतः भाष्याष्टसहस्त्रयोः पाठोऽनेकत्र विभिद्यते । स पाठटिप्पण्यां (Foot note) न्यस्तः । उद्धरणस्थलान्वेषणसमये उपलब्धानां समानविषयाणां सङ्केतोऽपि पादटिप्पण्यां निवेशितः नवमे पुनः परिशिष्टे विस्तरतः तुलनात्मिका टिप्पण्यो निवेशिताः सन्ति । मूलग्रन्थे ता: ( ) चिह्नेनोल्लिखिताः सन्ति । विवरणे ग्रन्थान्तरादुद्धृताः साक्षिपाठाः लघुपृथ्वक्षरसंयोजनेन ( Small Bold Font ) आकारिताः । मुद्रणादर्शसंशोधनसमये उपलब्धानां साक्षिस्थलानां निर्देशस्तत्रैव चतुरस्रकोष्ठके [ ] कृतः । अवशिष्टानां चतुर्थे परिशिष्टे । अष्टसहस्त्रयामप्येवमेव । सम्पाद्यमानग्रन्थेन सह संलग्नानां प्रसक्तानुप्रसक्तविषयाणामवगमार्थं अनेकविधां सन्दर्भसामग्रीं सङ्कलय्यैकादशपरिशिष्टान्यत्र सम्पादने समायोजितानि । तत्र प्रथमे परिशिष्टे त्रयाणां भाष्याष्टसहस्री - अष्टसहस्रीतात्पर्यविवरणानां वृत्तिग्रन्थानां मूलभूता शताधिकचतुर्दशकारिकाप्रमिता आप्तमीमांसा सङ्कलिता मूलमात्राभिरुचिसम्पन्नानां कृते । (१०) द्वितीये परिशिष्टे तस्या एव कारिकार्द्धानामकारादिक्रमेण कृता सूची सङ्कलिता । ग्रन्थान्तरोद्धृतानां कारिकाणां मूलान्वेषणार्थमियमुपयोगिनी । (११) तृतीये परिशिष्टे अष्टसहस्त्रीवृत्तौ आचार्यविद्यानन्देनोद्धृतानां ग्रन्थान्तरीयसाक्षिपाठानां सूची ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 450