Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ४६
स्वस्रा सुषेणाभिधया नृपस्य, दत्तां स्वकन्यां परिणीय धन्याम् । नृपात्मजोऽयं पतियोगजातं, मातुः प्रमोद द्विगुणीचकार ॥४०॥ न तज्जयन्तेन हरिन शेषो, भद्रेण यन्मध्यमलोकपालः । सुतेन संसाधयति स्म कार्य, स तेन११ दुःसाद्य(ध्य)मपि क्षणेन ॥४१॥ प्रद्योताद्याः क्षितीन्द्राः कति कति न तदा सन्ति शक्तित्रयाढ्या
स्तेषु श्लाघां बुधेभ्यः कलयति पुरत:१२ श्रेणिकस्त्वेक एषः । पुत्रो मन्त्री च यस्याऽगणनगुणनिधिर्भक्तिशक्तिप्रधानो,
धत्ते राज्यस्य भारं मतिविभवभराक्रान्तभूपालचक्रः ॥४२॥ [स्रग्धरा] दातारं यमुपास्य याचकचमूर्नान्यं वदाऽन्यं गता,
यस्य न्यायविनाकृतो नयनिधेः पुत्रोऽप्यमित्रोपमः१३ । वैरिश्रीजयसङ्गमेन सततं बि[वि] भ्राजमानस्त्रिधा, वीरश्रेणिशिरोमणिविजयते श्रीश्रेणिकः क्षमापतिः ॥४३॥ [शार्दूल०] ॥ इत्यभयाभ्युदयनाम्नि महाकाव्ये प्रथमः सर्गः ॥छ।
ग्र. ६९ अ. १८
ऐं नमः
[द्वितीयः सर्गः] इतश्च श्रीविशालाऽस्ति, वैशालीति पुरीवरा । तत्र चेटीकृताऽऽराति-नृपश्चेटक इत्यभूत् ॥१॥ [अनुष्टुप्] तत्सुतां चेल्लणाभिख्या-मानीतामपहत्य सः । उषामिवाऽनिरुद्धः श्री-श्रेणिकः परिणीतवान् ॥२॥ भोगांस्तस्या समं भेजे, राजा सोऽथ यथारुचि । राज्यभारं समारोप्य, पुत्रे मन्त्रिणि चाऽभये ॥३॥ कपटश्राविकीभूयाऽभयः१५ पण्यस्त्रियैकया । धृत्वाऽऽनीतो विशालायां, प्रद्योतस्य निदेशतः ॥४॥ तदा चाऽवन्तिनाथेन, चेतसीति विचिन्तितम् । सुता वासवदत्ता मे, याऽस्त्यङ्गारवतीभवा ||५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106