Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६
वत्सराजो जगौ राज - पुत्रीमिति तदा प्रिये ! । गच्छावः साम्प्रतं भद्र-वतीमारुह्य हस्तिनीम् ||४८|| नृपो वसन्तकेनाऽथा -ऽऽनाययत्तां करेणुकाम् । गन्तुं सधात्रिका राज - - पुत्री सज्जा बभूव च ॥४९|| दूष्यायां नह्यमानाया- मिभी सा रसितं व्यधात् । एको नैमित्तिकस्तच्च श्रुत्वा रसितमब्रवीत् ॥५०॥ कक्षायां बध्यमानायां यथा रसति हस्तिनी ।
,
Jain Education International
योजनानां शतं गत्वा, तथा प्राणान् प्रहास्यति ॥५१॥ बबन्ध वत्सराजस्य, वचसा स वसन्तकः । इभ्यामूत्रस्य घटिका -श्चतस्रः पार्श्वयोर्द्वयोः ॥५२॥ मिठो राजसुता वत्स - राजो घोषवतीकरः । धात्री काञ्चनमाला चाऽऽरुरुहुस्तां द्विपीं तत: १८ ॥५३॥ यौगन्धरायणो याहि, याहीति करसञ्ज्ञया । अनोदयन्नृपं सोऽपि, जुघोषेति व्रजंत (स्त) दा ॥५४॥ वत्सराजो वेगवती - घोषवत्यौ वसन्तकः । वासवदत्ता काञ्चन-माला सार्थः प्रयात्यसौ ॥५५॥ गतेषु तेषु नृपतिः क्रुद्धो नलगिरिं गजम् । सन्नाह्य ताननुप्रैषीद्, युतं यौधैर्निषादिभिः ॥ ५६ ॥ उल्लङ्घ्य पञ्चविंशत्या, योजनैः प्रमितां भुवम् । वत्सराजस्तमायातं, पृष्ठेऽपश्यन् महागजम् ॥५७॥ स्फोटयामासिवानेकां, ततो मूत्रघटीमयम् । प्रेरयामास च पुन-र्जवेनैतां करेणुकाम् ॥५८॥ जिघ्रन् करेणुकामूत्रं, करी सोऽपि स्थितः क्षणम् । पृष्ठे सञ्चारितश्चैषां कष्टेन महता ततः ॥५९॥ अध्वनि स्फोटयन्नन्या, अपि तावति तावति । इभीमूत्रस्य घटिका, गतिं सा करिणोऽरुणत् ॥६०॥ सयोजनशतप्रान्ते, कौशाम्बीमविशत् पुरीम् । व्यपद्यत परिश्रान्ता, साऽपि वेगवती द्विपी ॥ ६१ ॥
अनुसन्धान ४६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106