Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
डिसेम्बर २००८
१७
सम्मुख्यं योद्धमायान्ती, दृष्ट्वोदयनवाहिनीम् । तं गजं वालयित्वाऽगु-रवन्तीं ते निषादिनः ॥६२॥ ततः प्रयाणकाकाक्षी, प्रद्योतः कुलमन्त्रिभिः । युक्तिपूर्वमिति प्रोचे, स्वस्वामिहितकाङ्क्षिभिः ॥६३॥ वराय यस्मै कस्मैचिद्, दीयते कन्यिका ध्रुवम् । तत्समो वत्सराजेन, भावी कोऽस्यों वरः परः ? ॥६४॥ पूर्यतां यात्रया तत्ते, मान्यतां स वरो वरः । स एव तव कन्याया, यत्कौमारहरोऽजनि ॥६५।। तैरेवं बोधितो वत्स-राजाय प्रजिघाय सः । राजा जामातृभावार्ह-मनर्धं वसुसञ्चयम् ॥६६॥ वरेण तेन तैरेन्यै-रपि दत्तैस्त्रिभिर्नृपात् । स्वं क्रमान्मोचयाञ्चक्रे, मतियोगादथाऽभयः ॥६७॥ तमुवाचाऽभयो राजं-स्त्वया निन्ये छलादहम् । दिवा रटन्तं पूर्मध्ये, त्वां तु नेष्याम्यसावहम् ॥६८|| ततो राजकुमारोऽगा-निजं राजगृहं पुरम् । कथमप्यवतस्थे च, कञ्चित् कालं महामतिः ॥६९॥ सुरूपैगणिकायुग्म-युतो वाणिजवेषभृत् । अवन्त्यां सोऽगमद् मार्गा-सन्नं च गृहमग्रहीत् ॥७०॥ हस्तिस्थितो गवाक्षस्थे, प्रद्योतः प्रेक्षते स्म ते । प्रद्योतमेते अपि तं, सविलासमपश्यताम् ॥७॥ अनुरक्तो नृपः प्रैषी-दन्तिके दूतिकां तयोः । कुपिताभ्यामियं ताभ्यां, वधूभ्यामपहस्तिता ॥७२।। अनुनेतुमिमे दूती, द्वितीयेऽप्यह्नि साऽगमत् । ताभ्यां तत्र दिने स्वल्प-कोपाभ्यां मानिता मनाक् ॥७३।। अनिर्विण्णा तृतीयेऽपि, दिने साऽर्थयते स्म ते । ताभ्यामूचे सदाचारो, भ्राता नौ बिभिय(व)स्ततः ।।७४।। सप्तमेऽह्नि समायाते, यातेऽमुष्मिंस्ततो बहिः । इहाऽभ्येतु नृपो युक्तं, ततः सङ्गो भविष्यति ॥७५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106