Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ अनुसन्धान ४६ अभयोऽथ निजं कञ्चित्, प्रद्योतसदृशं नरम् । उन्मत्तमकरोत्तस्य, प्रद्योत इति नाम च ॥७६।। ग्रहिलोऽयं मम भ्राता, पुरे भ्राम्यति सर्वतः । सज्जीकार्यो मयाऽयं त-दित्यवादीज्जनेऽभयः ।।७७।। नयामि वैद्यगेहेऽमु-मितिच्छद्मपरोऽन्वहम् । रटन्तं मञ्चकारूढं, स तं निन्येऽभयो बहिः ॥७८।। उच्चैः स्वरं स चोन्मत्तो, नीयमानश्चतुष्पथे । प्रद्योतं मां हरत्येष, इत्युदश्रुमुखोऽरटत् ॥७९॥ . ययौ नृपोऽपि तत्रैकः, प्रच्छन्नं सप्तमेऽहनि । बबन्धे चाऽभयभटैः, कामान्धः सिन्धुरो यथा ॥८०॥ वैद्यगेहे नयाम्येनं, जल्पतेत्यभयेन सः । जहे पुरस्य मध्येन, सपर्यङ्को दिवा रटन् ॥८१।। प्रतिक्रोशं पुरो मुक्तै-र्वाजिभिः करभैरथैः । नृपं राजगृहं निन्ये-ऽभयस्तं भयवर्जितः ॥८२।। अभयः श्रेणिकस्याऽग्रे, निनायोज्जयिनीपतिम् । अधावत्तं प्रति क्रुद्धः, कृष्ट्वाऽसिं श्रेणिको नृपः ॥८३।। सम्बोध्य मगधाधीश-मभयो नीतिवित्ततः । प्रद्योतं प्रेषयामास, सत्कृत्य स्वपुरं प्रति ॥८४|| सुधर्मस्वामिपादाना-मन्तिके कश्चिदन्यदा । प्रव्रज्यामाददे काष्ठ-भारिको भवभीरुकः ॥८५।। विहरन्तं पुरे पौराः, पूर्वावस्थाऽनुवादतः । उपाहसन्नमुं सोऽपि, विहारार्थे जगौ गुरून् ॥८६॥ अन्यत्राऽथ विहाराय, पृष्टो गणभृताऽभयः । पृच्छंश्चाऽयं विहारस्य, हेतुं तं ज्ञापितोऽमुना ॥८७॥ स प्रणम्येत्ययाचिष्ट, दिनमेकं प्रतीक्ष्यताम् । तदूर्ध्वं भगवत्पादै-य॑थारुचि विधीयताम् ॥८८।। भाण्डागारात्ततः कृष्ट्वा, रत्नकोटित्रयीमयम् । दास्याम्येतामेत लोकाः, पटहेनेत्यघोषयत् ॥८९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106