Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ डिसेम्बर २००८ कलागुरो ! कलाः सर्वा-स्त्वया सङ्क्रामिता मयि । इयमेवाऽस्तु तद्दक्ष !, दक्ष(क्षि)णाऽऽत्मसमर्पणम् ॥३४॥ इति तद्वाक्सुधापान-सङ्क्रान्तस्वादुतागुणम् । तदनूदयनः प्राह, सप्रमोदमिदं वचः ॥३५॥ छद्मना या पराभूतिः, पुराऽभून्मम वाणिनि ! । जज्ञे सैव परा भूति-स्त्वल्लाभेनाऽधुना पुनः ॥३६।। तत्रैव तस्थुषोर्योग-स्तद्भवत्वावयोः प्रिये ! । हृत्वा त्वं समये यास्या-म्यहं निजपुरं पुनः ॥३७॥ इत्थं तयोः स्वदौत्येन, योगः काञ्चनमालया । धात्र्या वासवदत्ताया, ज्ञायते स्म परेण न ॥३८॥ वसन्तकेन मिण्ठेन, वत्सराजस्य मैत्र्यभूत् । करी नलगिरिः स्वैर-मन्यदोपाद्रवत्पुरम् ॥३९।। विहस्तेन नृपेणाऽथ, पृष्टः श्रेणिकनन्दनः । प्राहेत्यमुं वशीकर्तुं, गायतूदयनो नृपः ॥४०॥ प्रद्योतोक्तः सुतायुक्तो, जवन्यन्तरितोऽथ सः । गीतं गायन्नलगिरिं, वशीचक्रे क्षणादपि ॥४१॥ वरं ददौ नृपस्तुष्टो, न्यासीचक्रेऽभयस्तु तम् । उद्यानं प्रति चाऽन्येधु-श्चचालोज्जयिनीपतिः ॥४२॥ तदेति वत्सराजस्य, मन्त्री यौगन्धरायणः । प्रद्योतराजमालोक्य, राजमार्गस्थितोऽवदत् ॥४३।। यदि तां चैव तां चैव, तां चैवाऽऽयतलोचनाम् । न हरामि नृपस्याऽर्थे, नाऽहं यौगन्धरायणः ॥४४॥ भृकुटीभीषणं प्रेक्ष्य, नृपस्याऽऽस्यं स धीसः । स्वस्योदयनगृह्यत्व-मपाकर्तुं तदात्वधीः ॥४५।। उर्ध्व एव स सन्त्यक्त-संव्यानो विकृताकृतिः । अमूत्रयन्नृपोऽप्येनं, भूताविष्टममन्यत ॥४६।। उद्यानस्थो नरपति-द्रष्टुं गान्धर्वकौशलम् । कौतुकी वत्सराजेन, युतामाजूहवत्सुताम् ।।४७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106