Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४
कर्तव्यं समयायात - मिदमप्यधुना मया । ध्यात्वेत्युदयनो मेने, कालक्षेपाय तद्वचः ॥२०॥ जगादोज्जयिनीशस्त-मेकाक्षी साऽस्ति मे सुता । तन्त्र वीक्ष्या त्वया येन त्वां विलोक्य त्रपिष्यते ॥२१॥ नृपस्तामप्युवाचेति, वत्से ! गीतकलागुरुः । अपश्यन्त्या त्वया पर्युपास्यः कुष्ठी यतोऽस्ति सः ||२२|| अथो जवनिकान्तःस्था - मिमामुदयनः सदा । शिक्षयामास गान्धर्व-कलामन्तःपुरस्थितः ||२३|| तया प्रद्योतभूभर्तुः, शिक्षया तौ परस्परम् । नाऽपश्यतां यतश्छेको -ऽप्यतिच्छेकेन वञ्च्यते ||२४|| तन्निर्ध्यानधनाऽन्येद्युः, सा कन्या शून्यमानसा | अधीते स्माऽन्यथा सर्वा:, मनोधीनाः क्रिया यतः ॥ २५ ॥ काणेति तर्जिता तेन, कुपितेन जगाद सा ।
कुष्ठिनं स्वं न जानासि ? किं मां काणेति भाषसे ? ||२६|| अचिन्ति वत्सराजेन, कुष्ठभाग् यादृगस्म्यहम् । एकाक्षी तादृगेषाऽपि स्यात्ततः किं न वीक्ष्यते ? ॥२७॥ अपसार्य ततः काण्ड-पटं मेघविनिर्गताम् । लेखामिवैन्दवीमेष, कन्यकां पश्यति स्म ताम् ॥२८॥ तं च वासवदत्तापि, साक्षादिव पतिं रतेः । प्रफुल्लाक्षी प्रमोदेन, सुभगं तमवैक्षत ॥ २९ ॥ कन्यां नृपो नृपं कन्या - ऽप्यवलोक्य स्मितं तदा । मिथोऽनुरागसाङ्गत्य-सूचकं तेनतुर्मुदा ॥३०॥ युक्तं परिदधे ताभ्यां रोमाञ्चकवचं तदा । यतः सुरतसङ्ग्राम- समयोऽभ्यर्ण एव हि ॥ ३१॥ प्रद्योततनया बाढं, कामरागवशंवदा । दूतीभूतात्मनैवेति, वत्सराजमवोचत ||३२|| इयत्कालं कलावन्तं त्वामवीक्ष्याऽस्मि वञ्चिता । पद्मिनीव निशीथिन्यां, नियत्या पितृशिक्षया ||३३||
Jain Education International
अनुसन्धान ४६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106