Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ डिसेम्बर २००८ तया योग्य गुरोरन्ते, शिक्षिताः सकलाः कलाः । गन्धर्ववेद एवैको -ऽवशिष्येत गुरुं विना ॥६॥ ध्यात्वेति सचिवं राजा, पप्रच्छेति बहुश्रुतम् । को नाम दुहितुर्भावी, गुरुर्गान्धर्वपाठने ||७|| प्रायेण राजपुत्रीणां प्राप्तानां पतिमन्दिरम् । विना गीतकलां पत्यु - - विनोदे किं भवेत्परम् ? ॥८॥ उवाच सचिवः स्वामिन् ! सम्प्रत्युदयनाभिधः । राजाऽस्ति सर्वगान्धर्व१७ - धुरीणानां शिरोमणिः ||९|| अद्भुता काऽपि गान्धर्व कला तस्य निशम्यते । यो बध्नाति वने व्याला- नपि गीतेन मोहयन् ||१०|| वने बध्नाति स यथा, गीतोपायेन कुम्भिन: । तथा तस्याऽप्युपायोऽस्ति, बन्धेऽत्राऽऽनयनेऽपि च ॥११॥ तन्वन् यन्त्रप्रयोगेण, क्रिया गत्यासनादिकाः । कार्यतां कुञ्जरस्तत्र, किलिञ्जः काननान्तरे ॥१२॥ किलिञ्जकरिमध्यस्था:, सुभटाः शस्त्रपाणयः । नृपं नियन्त्र्य विश्वस्तं, तमानेष्यन्ति तेऽन्तिके ॥१३॥ तं किलिञ्जगजं तेन, कारितं तद्वनान्तरे । वनेचरा विलोक्याऽथो- दयनाय व्यजिज्ञपन् ॥१४॥ दूरं मुक्त्वा परीवारं, गत्वा तस्याऽन्तिकं नृपः । गीतं गातुं समारेभे स तिरस्कृततुम्बरुः ||१५|| यथा यथा जगौ गीतं, मधुरं स तथा तथा । भटाः करटिनं चक्रु-मध्यस्था निश्चलाङ्गकम् ॥१६॥ तं गीतमोहितं मत्वो-दयनोऽपि शनैः शनैः । उपेत्योत्प्लुत्य चाऽरोहत् कुञ्जरं नरकुञ्जरः ||१७|| योधैर्निरीय तन्मध्याद्, बध्यमानोऽप्ययं तदा । एकोऽ‍ शस्त्रश्च नाऽकार्षी-च्छेकः किमपि पौरुषम् ॥१८॥ तमानीतं पुरः प्रद्यो -तोऽपि भूमिपतिर्जगौ । शिक्षय त्वं मम सुतां भद्र ! गीतकलां निजाम् ॥१९॥ Jain Education International " For Private & Personal Use Only १३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106