Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ४६
प्रसेनजित्तत्र नृपः स्थितं तं, विज्ञातपूर्वी प्रणिधि प्रयोगात् । आह्वाययामास रुजादितोऽथ, क्रमेलकस्थैः पुरुषैर्जवेन ॥१२॥ अमन्दमान्द्यं पितरं स तेभ्यः, श्रुत्वा भृशं बाष्पभरप्लुताक्षः । प्रियां वियोगाकुलचेतसं ता-मापृच्छत प्रेमपरैर्वचोभिः ॥१३॥ गोपालकाः पाण्डुरकुड्यवन्तो, वयं पुरे राजगृहे सदा स्मः । आह्वानमन्त्रप्रतिमानितीमान्, वर्णान् लिखित्वाऽर्पयति स्म चाऽस्यै ॥१४॥ गतः पुरं राजगृहं ननाम, तमामयग्रस्ततनुं सबाष्पः । तुष्टात्ततो वर्णगुरोरतोऽयं, साम्राज्यदीक्षां च जवादवाप ॥१५॥ गते दिवं तत्र महीमहेन्द्रे, श्रीश्रेणिको भूमिभरं बभार । साहायकं यस्य भुजो व्यधत्त, भूभारखिन्नस्य भुजङ्गभर्तुः ॥१६॥ यस्य प्रतापस्तपनो नवीनः, कोऽपि प्रजादुःखतमोपहर्ता । द्विड्दुर्यशोराहुमिह स्फुरन्तं, नभस्तले प्रत्युत जग्रसे यः ॥१७॥
आगच्छता तेन यदा विमुक्ता, नन्दा तदा गर्भवती बभूव । गर्भानुभावादभयप्रदाने, तस्यास्ततो दोहद उद्बभूव ।।१८।। स पूरितोऽस्या जनकेन भूपं, विज्ञप्य कालेऽथ नृपप्रिया सा । महःसमूहग्लपितप्रदीपं, प्रासूत पूर्वेव रवि तनूजम् ॥१९॥ यद्दोहदो मातुरमुष्य जज्ञे, गर्भे स्थितोऽस्मिन्नभयप्रदाने । मातामहेनाऽभय इत्यवादि, ततः कुमाराग्रपदः स नाम्ना ॥२०॥ अधीतविद्यः६ क्रमतोऽष्टवर्ष-वयाः स केनाऽपि कुतोऽप्यमर्षात् । अतयंतेति त्वमसीह को नु, नामाऽपि बुध्येत पितुर्न यस्य ॥२१॥ नन्दासुतेनाऽभिदधे पिता मे, भद्रः परः प्राह न ते पिताऽयम् । त्वन्मातुरेषोऽथ ययौ विलक्षः, पार्वं जनन्या स जगाद तां च ॥२२॥ तातः क्व मे मातरगात्तयाऽथ, भद्रः पिताऽकथ्यत ते पिताऽयम् । न मे सुतेनेत्युदिता जगाद, भूयोऽपि निःश्वस्य सुदीर्घमेषा ।।२३।। वैदेशिकः कश्चन मां विवाह्य, गर्भस्थितेऽथ त्वयि कैश्चिदेषः । पुंभिः समेतैर्विजने विधाय, मन्त्रं ययौ क्वाऽपि मयाधिरूढः ॥२४॥ गच्छंस्तदा किं किमुवाच स त्वां ?, पृष्टाऽभयेनेति ततः सुनन्दा । तत्पत्रकं दर्शयति स्म सोऽपि, तद्वाचयित्वेत्यवदत् प्रहृष्टः ॥२५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106