Book Title: Anusandhan 2008 12 SrNo 46
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ डिसेम्बर २००८ विविधकथासङ्ग्रहान्तर्गतम् "अभयाभ्युदयमहाकाव्यम्" अच्चंतपावभीरू, रज्जं न लयंति दिज्जमाणंपि । अभयमहासाला इव, जिणसासणभावियमईया ॥१॥ [आर्या] पुरा पुरे राजगृहे प्रसेन-जिताख्ययाऽभूत्क्षितिमाननेके । महस्विनस्तस्य सुता बभूवुः, श्रीश्रेणिकाद्या मणयो यथाऽब्धेः ॥१॥ [उपजाति] क एषु राज्यार्ह इति क्षितीशः, परीक्षितुं पायसभाजनानि । अन्येधुरेषामशनाय पड्क्त्या , व्यमोचयत् ते च ततो निविष्टाः ॥२॥ भोक्तुं प्रवृत्तेषु सुतेषु तेषु, विमोचयामास स सारमेयान् । नेशुः कुमारा ध्रुववद्दिने तु, तत्र स्थितः श्रेणिक एक एव ॥३॥ क्षिपन् शुनिभ्यः परभाजनानि, स पायसं स्वं बुभुजे सुखेन । तद्वीक्ष्य दध्यौ नृपतिर्मनीषी, यथा तथाऽप्येष निषेत्स्यतेऽरीन् ॥४॥ स्वयं च भोक्ष्यत्ययमात्मराज्यं, राज्यस्य योग्यस्तदयं परे न । ध्यात्वेति तेभ्यः स विभज्य देशान्, ददौ सदौचित्यवतां वरेण्यः ॥५॥ श्राक् श्रेणिको मानवशानिरीय, बेन्नातटं नाम पुरं जगाम । श्रान्तो विशश्राम स तत्र भद्रा-भिधस्य हट्टे वणिजां वरस्य ॥६।। स क्रायकैर्भूरिनरैस्तदानीं, विहस्ततां प्राप वणिक् ततोऽस्य । बद्ध्वा पुटीरर्पयता वितेने, साहायकं भूधननन्दनेन ॥७॥ श्रेष्ठी स भूयिष्ठमुपाM वित्तं, तस्याऽनुभावेन तमित्युवाच । अद्याऽतिथिस्त्वं भविताऽसि कस्य, पुण्यात्मन: ? पुण्यनिधेऽभिधेहि ॥८॥ युष्माकमेवेति निशम्य तस्मा-दचिन्तयद्भद्र ! इदं हृदन्तः । स्वप्नेऽद्य योऽदर्शि मया सुताया, योग्यो वरः सैव समागतोऽयम् ॥९॥ ध्यात्वेति संवृत्य निजापणं स, निन्ये सहैव स्वगृहं कुमारम् । सगौरवं गौरवभाजनस्य, तस्याऽथ चक्रे सवनाऽस(श)नाद्यैः ॥१०॥ शुभे मुहूर्तेऽथ तदीय'कन्या-मानन्दका रूपगुणात् सुनन्दाम् । उदूह्य भेजे रमयेव विष्णु-स्तया समं वैषयिकं सुखं सः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106