Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ सप्टेम्बर २००८ अस्मिन् बीबीपुराख्यं प्रमुदितजनभृद्रम्यहHध्वजाली___छायाच्छद्मप्रसर्पद्भुजगततिवधूगोपितोद्यन्निधानम् । शक्रेण स्वं सुराढ्य(ढ्यं) पुरममलधिया त्यक्तुकामेन साक्षाद् वस्तुं बद्धस्पृहं सद्विशदतरगुणं भाति शाखापुरं तत् ॥६॥ [स्रग्धरा]] किञ्च-श्रीमान् बब्बरपार्थिवो गजघटासङ्घट्टदुस्सञ्चरं, प्राज्यं राज्यमपालयज्जनगणत्राणैकबद्धोद्यमः । माद्यद्दोर्बलदर्पदर्पितमनःप्रत्यर्थिसीमन्तिनी वैधव्यव्रतदानकर्मगुरुतां सार्वत्रिकी यो दधे ॥७॥ [शार्दूल०] तस्मादाविरभूद्यथा दशरथाद् रामः प्रतापांशुमान्, सन्न्यायैकमतिह( ? )मायुनृपतिदुर्वारवीर्योन्नतिः । शैलेभ्यः पततां परक्षितिभृतां श्वासानिलैर्बिभ्यतां, येन द्राग्ददताऽशनं फणभृतां प्राणोपकारः कृतः ॥८॥ [शार्दूल०] सूनुस्तस्य महीभृतः समभवद् भूमण्डलाखण्डलः, शाहिश्रीमदकब्बरक्षितिपति स्फूजत्प्रभाहर्पतिः । दानेनाऽर्थिभिराजिभिः परगणैः शूकेन हिंस्त्रैः सृजन्, मुक्तं वीरकथामयं जगदिदं वीरस्त्रिधा यो व्यधात् ॥९॥ [शार्दूल०] यस्योद्यद्दानधाराधरपटलसमुद्भूतसौवर्णधारा सन्दोहप्लाव्यमानः क्वचिदपि लभते नाऽऽश्रयं दौस्थपङ्कः । नश्यद्भिाग् विपक्षक्षितिपतिभिरतिस्पर्द्धयेवोह्यतेऽसा ___ वृत्सृज्याऽमुं समन्तात्कशिपुगतभरं सानुमत्काननेषु ॥१०॥ [स्रग्धरा] तस्य श्रीमदकब्बरक्षितिपतेर्देदीप्यते साम्प्रतं, सूनुः श्रीइसलामशाहिनृपतिः प्रोत्सर्पिकीर्तिप्रथः । भूभारोद्धरणैकधीरभुजभृत् कुर्वन्ति यस्य द्विषो, द्वन्द्वेऽत्युग्रशरप्रहारविधुरा देवाङ्गनानां मुदम् ॥११॥ [शार्दूल०] दुग्धाम्भोधिभवत्तरङ्गविलसडिण्डीरलक्ष्मीमुष स्साम्याभावसमुत्थदर्पकलिता यत्कीत्तर्यः स्पर्धिनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114