Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 26
________________ सप्टेम्बर २००८ आद्योऽसौ मेघनादस्तत इह विदितः सिंहनादो द्वितीयः, सूर्यान्नादस्तृतीयो विशदतररमो रङ्गनामा तुरीयः । खेलाख्यः पञ्चमोऽयं तदनु च गदितो गूढगोत्रेण षष्ठो, यत्रे(त्रै)ते मण्डपाः षट् वसतय इव सद्धर्मभूभृद्गुणानाम् ॥५२॥ [स्रग्धरा] प्रासादो जिनसद्मभिः प्रविलसत्शृङ्गैर्द्विपञ्चाशता, व्याप्तश्चारुचतुर्मुखार्हतगृहैर्युक्तश्चतुर्भिस्तथा । तावद्भिर्धरणीगृहैर्जिनबृहद्विम्बान्वितैश्चोल्बणः, सामन्तादिभिरावृतो नृप इव स्वैरं स्थितः संसदि ॥५३॥ [शार्दूल०] भातोऽर्हत्प्रतिमाभिः प्रत्येकं यस्य देवकुलिकाभिः । अभ्रंलिहशिखरानौ वृतौ विहारौ चतुर्मुखौ शश्वत् ॥५४॥ गीतिः द्विरदारूढौ दानं, ददतौ कस्य न मुदे विहारकृतोः । जनकः सहस्रकिरणो वाछानामा पितामहश्चोभौ ॥५५॥ गीतिः विन्ध्यो लक्ष्म्याऽतिवन्धोऽनिमिषगिरिरसौ नो गुरुर्न त्रिकूटः, प्रोच्चैः कूटस्तुषाराचल उपल इव भ्रस्यदाभः सुनाभः । कैलासोऽसद्विलासो भवति नयनसत्प्रीतिदेऽस्मिन् विहारे, मध्याह्नेऽशोस्तुरङ्गा यमिव सपदि नो द्रष्टकामा व्रजन्ति ? ॥५६।। [स्रग्धरा] कुर्वाणोऽसुमतां सदाऽनिमिषतां द्रष्टुं समागच्छता(तां), तन्वानोऽमृतसङ्गमाद्भुतसुखानाराधकानङ्गिनः । शङ्के निर्जरयानतो दलगणं सङ्ग्रह्य यन्निर्मितः, प्रासादः प्रसरत्प्रभः समभवत् तदाग् [तद् द्राग्] विमानं ततः ॥५७|| [शार्दूल०] किञ्च- प्रासादनिर्मापणजातभाग्य-प्रकर्षसम्भूतसमृद्धिभाजः । श्रीशान्तिदासस्य महप्रधाना वर्तन्त एते दिवसास्समन्तात् ।।५८।। [इन्द्रवज्रा] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114