Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४०
अनुसन्धान ४५
अमू लकारं पश्यतः, अमी लकारं पश्यन्तीति उभयत्राऽत्र अदसोमात् [ पाणिनि. १.१.१२] इति प्रक्रियासूत्रेण, नामी [ सा. प्रकृतिभाव. १] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् लकारस्य स्वरसंज्ञाप्रयोजनसद्भावः सिद्धः।
___ 'लवर्णो न दीर्घोऽस्ति' इति यद् रामचन्द्रो अवोचत्, तदपि तदिच्छया तस्यैव 'स्वतः प्रमाणं न परतः' इति ।।
तथा च कालापकव्याकरणसूत्रं, तत्र, चतुर्दशादौ स्वराः [] तथा च एतट्टीका- तत्र तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दशवर्णास्ते स्वरसंज्ञा भवन्ति । स्वर १४ - अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । यथा अनुकरणे इस्वलकारोऽस्ति तथा दीर्घोऽप्यस्तीति मतमिति ।
तथा च हैमव्याकरणसूत्रम्- 'औदन्ताः स्वराः' [ सिद्धहैम. १.१.४ ] वृत्तिश्चास्य- 'औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार उच्चारणार्थः । अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपि पठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थं, तेन तेषामपि स्वरसंज्ञेति ।'
तथा च काव्यकल्पलतासूत्रम् - विकृति स्रोतस्विन्यः चतुर्दश तुरे [ ] इति ।
तथा च हैमानेकार्थसूत्रम् - स्वरः शब्देऽपि षड्जादौ [अनेकार्थ कां. २ श्लो. ४७७] इति । 'अच्' इति अकारादीनां चतुर्दशानां वर्णानां पाणिनीयासंज्ञा । तत्र यथा - 'एकस्वरं चित्रमुदाहरन्ति' [ ] इति हैमानेकार्थटीका ।
तथा च विश्वप्रकाशकारःस्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः, [विश्वप्र० रान्तवर्म ९] इति ।
हलायुधोऽपि१. 'व्याकरण' नास्ति कै. । २. काव्यकल्पलता....रत्नपुरुषत्वे य स्वप्ना: जीवाजीवोपकरणगुणिनाग्रगारं रज्जुसूत्रं
पूर्वमिहाकुले करिपिण्डप्रकृति इति पाठो विद्यते कै. प्रतौ ।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114