Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ अनुसन्धान ४५ 'स्वरा विंशतिरेकश्च' [पाणिनीयशिक्षा प. ४] इति । तच्चैवम् - अ१, इ२, उ३ एते त्रय: हुस्वदीर्घप्लुतभेदात् नव ९, ऋवर्णः प्लुतहीनो द्विविध: २, लुकारो दीर्घहीनो द्विविधः २, सन्ध्यक्षराणि दीर्घप्लुतभेदात् ८, एवं एकविंशतिस्वराः सन्ति । परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः । ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीतव्याकरणाद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृतसमानादिसंज्ञानामपि च सर्वपूर्वकविप्रणीतानेकग्रन्थसंज्ञानुयायित्वात् । छ। इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दशस्वरस्थापनवादस्थलं समाप्तम् । श्रीजिनराजसूरीन्द्रे धर्मराज्यं विधातरि । अस्मिन् खरतरे गच्छे धर्मराज्यं विधातरि ॥१॥ जगद्विख्यातसत्कीर्तिर्ज्ञानविमलपाठकः । योऽभवत्तस्य पादाब्जभ्रमरायितमानसः ॥२॥ श्रीवल्लभ उपाध्यायः समाख्यातीति सूनृतम् । चतुर्दशस्वरा एते सर्वशास्त्रानुसारतः ॥३॥ त्रिभिविशेषकम् इति श्रीश्रीवल्लभोपाध्यायविरचित-सारस्वतमतानुगत सर्वशास्त्रसम्मत-चतुर्दशस्वरस्थापनवादस्थलप्रशस्तिः समाप्ता । तत्समाप्तौ च समाप्तं चतुर्दश स्वरस्थापनवादस्थलम् । तच्च वाच्यमानं चिरं नन्दतात् । १. अष्टौ इत्यधिकपाठो कै. । २. समानऽमपि इति जयपुर प्रतौ. ३. ज. प्रतौ सुनतं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114