SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४५ 'स्वरा विंशतिरेकश्च' [पाणिनीयशिक्षा प. ४] इति । तच्चैवम् - अ१, इ२, उ३ एते त्रय: हुस्वदीर्घप्लुतभेदात् नव ९, ऋवर्णः प्लुतहीनो द्विविध: २, लुकारो दीर्घहीनो द्विविधः २, सन्ध्यक्षराणि दीर्घप्लुतभेदात् ८, एवं एकविंशतिस्वराः सन्ति । परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः । ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीतव्याकरणाद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृतसमानादिसंज्ञानामपि च सर्वपूर्वकविप्रणीतानेकग्रन्थसंज्ञानुयायित्वात् । छ। इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दशस्वरस्थापनवादस्थलं समाप्तम् । श्रीजिनराजसूरीन्द्रे धर्मराज्यं विधातरि । अस्मिन् खरतरे गच्छे धर्मराज्यं विधातरि ॥१॥ जगद्विख्यातसत्कीर्तिर्ज्ञानविमलपाठकः । योऽभवत्तस्य पादाब्जभ्रमरायितमानसः ॥२॥ श्रीवल्लभ उपाध्यायः समाख्यातीति सूनृतम् । चतुर्दशस्वरा एते सर्वशास्त्रानुसारतः ॥३॥ त्रिभिविशेषकम् इति श्रीश्रीवल्लभोपाध्यायविरचित-सारस्वतमतानुगत सर्वशास्त्रसम्मत-चतुर्दशस्वरस्थापनवादस्थलप्रशस्तिः समाप्ता । तत्समाप्तौ च समाप्तं चतुर्दश स्वरस्थापनवादस्थलम् । तच्च वाच्यमानं चिरं नन्दतात् । १. अष्टौ इत्यधिकपाठो कै. । २. समानऽमपि इति जयपुर प्रतौ. ३. ज. प्रतौ सुनतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy