Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २००८
१. कोऽयं स्वरो नाम ? किं शब्दपर्यायः ? २. उत नासिकासमुद्भूतपर्याय: ? ३. अथवा निषादादीनामवबोधकः ? ४. किमुत उदात्तादीनां ज्ञापकः ? ५. अहोस्वित्' विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकः ?
इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयतीति प्रतिभाति ।
१. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यविहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुःस्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्याय: स्वरोऽवधार्यः२ । इत्याद्यः ॥१॥
२. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय-पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि । पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव । चन्द्र १सूर्यो २- च्च ३- नीच ४- तिर्यगादि ५- लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ॥२॥
३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १-ऋषभ २-गान्धार ३षड्ज ४- मध्यम ५- धैवत ६- पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमरः
निषादर्षभगान्धार-षड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः । [१.७.१] इति सप्तविधोऽवसेय: । इति तृतीयः । ४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः । यदमर:उदात्ताधास्त्रयः स्वराः [ १.६.४]
इति, अकारादीनामेव एते । इति चतुर्थः ॥४॥ १. आहोस्वित् कै.
२. स्वरोऽवधार्यः नास्ति जे प्रतौ । ३. पाठो नास्ति जे प्रतौ ।
४. एव नास्ति कै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114