Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ ३४ अनुसन्धान ४५ ५. अथ पञ्चमो विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकश्चेत् तर्हि सोऽपि द्विधा, ज्योतिःशास्त्रे व्याकरणे च द्विधा दर्शनात् । 'तत्र ज्योतिःशास्त्रानुसारेण षोडशप्रकारः, यदवदत् नरपतिदिनचर्यायां नरपतिदिनचर्याकार: मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया । इति । तथापि तन्मते कार्यकाले अ इ उ ए ओ पञ्चैवैते कार्यकारिणो ज्ञेयाः यत् नरपतिदिनचर्याकारः मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया । तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम् । ज्ञेया अतः स्वराद्यास्ते स्वराः पञ्च स्वरोदये ॥ [ ] इति । ऋ ऋ ल ल एतान् चतुःसंख्यान् नपुंसकान्, द्वौ अन्तिमौ अं अः इत्येतौ च त्यक्त्वा, अ इ उ ए ओ एते पञ्च कार्यकारिणः स्वराः स्वरोदये ज्ञेयाः । इति ज्योतिःशास्त्रे षोडशप्रकारो अकारादिसंज्ञाप्रतिपादकः स्वरशब्दोऽवगन्तव्यः । अथ भो ! भो ! व्याकरणाद्यनेक-ग्रन्थानुसारेण स्वराः कियन्त इति प्रतिपादयन्ति भवन्तः तत्रभवन्तः, तर्हि तत्रैवं ब्रूमः अहो व्याकरणाद्यनेकग्रन्थानुसाराणांरे चतुर्दशसंख्यत्वदर्शनात् चतुर्दश स्वराः । अत्र वादी वदति - नैवम्, अ इ उ ऋ लु समानाः [संज्ञाप्र० १.] इत्यनेन सूत्रेण अकारादीनां पञ्चानामेव समानसंज्ञाविधानात् । तदनन्तरं ए ऐ ओ औ सन्ध्यक्षराणि [संज्ञाप्र० ३.] ३इत्यनेन सूत्रेण एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञाविधानात् । तत उभये स्वराः [संज्ञाप्र० ४] इत्यनेन सूत्रेण अकारादीनां पञ्चानां चतुर्णां च एकोरादीनां १. तत्रभवन्त: नास्ति ज जे. प्रतौ २. व्याकरणेषु अकारादीनां स्वराणां कै. प्रतौ । ३. कै. प्रतौ एकारादीनां चतुर्णा सन्ध्यक्षरसंज्ञाभिधानात्. तत उभये स्वराः इत्यनेन सूत्रेण। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114