Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 25
________________ २४ यः सौभाग्यनिधिः क्षितीशसदसि प्राप्तप्रतिष्ठोऽन्वहं, मत्तानेकप-चञ्चलाश्वविलसद्राजप्रसादोल्वणः । निःशेषाङ्गिसमूहदुःखविलयस्फूर्जत्सुखं (ख) प्रापणो द्युक्तोऽसौ जयताच्चिरादहिमदावादोल्लसद्भूषणम् ॥४२॥ [ शार्दूल० ] शान्तिदासस्य जयतात्, कोऽपि शौर्यार्णवो नवः । मिथ्यात्वौर्वानलबलं, शमयत्यैष यत्कलौ ||४३|| [ अनुष्टुप् ] किञ्च सन्निधौ शान्तिदासस्य, सर्वकार्यधुरन्धरौ । वाघजी - कल्याणसञ्ज्ञौ, जीयास्तां साधुसिन्धुरौ ॥४४॥ [ अनुष्टुप् ] किञ्च - इभतुरगनृप[१६७८] मितेऽब्दे, प्राप्ताभ्यां भाग्यवत्परमकाष्ठाम् । साक्षाच्चतुर्दिगागत-विभवैर्द्ध (र्ध) नदायमानाभ्याम् ॥४५॥ [ आर्या ] सश्रद्धवर्धमान - श्रद्धाकमनीयशान्तिदासाभ्याम् । सुकुटुम्बाभ्यां ताभ्यां गृह्णद्भ्यां सम्यगुपदेशम् ||४६ || [ आर्या ] व्याख्यासुधोदधीनां, पवित्रचारित्रचारुचरितानाम् । अवदातबुद्धिबेडा-तीर्णागमतोयराशीनाम् ॥४७॥ [आर्या] छात्रीकृतधिषणानां श्रीश्रीसौभाग्यसद्गुरुवराणाम् । मुखकमलात्केसरमिव, सुवर्णरुचिरं मनः प्रीत्या ॥४८॥ [ आर्या ] श्रुत्वा विहारनिर्मिति - सम्भवफलनिकरसङ्गमोत्कर्षम् । अनुसन्धान ४५ बीबीपुरगृह्यायां प्रासादः कारयामासे ॥ ४९ ॥ पञ्चभि: कुलकम् [आर्या ] यस्मिंस्तोरणपुत्रिका अनुकृतस्वःसुन्दरीविभ्रमाः, के के न स्पृहयन्ति वीक्ष्य जनिताशंसा भुवि ? (व? ) श्शर्मणे । द्वारे यस्य च पञ्चपत्रमतुलं प्रासादरक्षाविधौ, दक्षं भाति चतुश्चतुष्ककलिते देवद्रुकल्पं कलौ ॥५०॥ [ शार्दूल० ] उच्चैः सोपानपङ्क्तिः शिवगतिगमनं प्राणिनां व्यञ्जयन्ती, साक्षात् श्रीपार्श्वभर्तुश्चरणसरसिजद्वन्द्वसेवापराणाम् । यस्य प्रारब्धसङ्गीतकनिकरलसद्वामपाञ्चालिकाली च्छद्मच्छ्न्नाप्सरोभिर्भृशमुपदिशतः स्वर्गसद्वर्णिकां द्राक् ॥५१॥ [स्रग्धरा ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114