SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ यः सौभाग्यनिधिः क्षितीशसदसि प्राप्तप्रतिष्ठोऽन्वहं, मत्तानेकप-चञ्चलाश्वविलसद्राजप्रसादोल्वणः । निःशेषाङ्गिसमूहदुःखविलयस्फूर्जत्सुखं (ख) प्रापणो द्युक्तोऽसौ जयताच्चिरादहिमदावादोल्लसद्भूषणम् ॥४२॥ [ शार्दूल० ] शान्तिदासस्य जयतात्, कोऽपि शौर्यार्णवो नवः । मिथ्यात्वौर्वानलबलं, शमयत्यैष यत्कलौ ||४३|| [ अनुष्टुप् ] किञ्च सन्निधौ शान्तिदासस्य, सर्वकार्यधुरन्धरौ । वाघजी - कल्याणसञ्ज्ञौ, जीयास्तां साधुसिन्धुरौ ॥४४॥ [ अनुष्टुप् ] किञ्च - इभतुरगनृप[१६७८] मितेऽब्दे, प्राप्ताभ्यां भाग्यवत्परमकाष्ठाम् । साक्षाच्चतुर्दिगागत-विभवैर्द्ध (र्ध) नदायमानाभ्याम् ॥४५॥ [ आर्या ] सश्रद्धवर्धमान - श्रद्धाकमनीयशान्तिदासाभ्याम् । सुकुटुम्बाभ्यां ताभ्यां गृह्णद्भ्यां सम्यगुपदेशम् ||४६ || [ आर्या ] व्याख्यासुधोदधीनां, पवित्रचारित्रचारुचरितानाम् । अवदातबुद्धिबेडा-तीर्णागमतोयराशीनाम् ॥४७॥ [आर्या] छात्रीकृतधिषणानां श्रीश्रीसौभाग्यसद्गुरुवराणाम् । मुखकमलात्केसरमिव, सुवर्णरुचिरं मनः प्रीत्या ॥४८॥ [ आर्या ] श्रुत्वा विहारनिर्मिति - सम्भवफलनिकरसङ्गमोत्कर्षम् । अनुसन्धान ४५ बीबीपुरगृह्यायां प्रासादः कारयामासे ॥ ४९ ॥ पञ्चभि: कुलकम् [आर्या ] यस्मिंस्तोरणपुत्रिका अनुकृतस्वःसुन्दरीविभ्रमाः, के के न स्पृहयन्ति वीक्ष्य जनिताशंसा भुवि ? (व? ) श्शर्मणे । द्वारे यस्य च पञ्चपत्रमतुलं प्रासादरक्षाविधौ, दक्षं भाति चतुश्चतुष्ककलिते देवद्रुकल्पं कलौ ॥५०॥ [ शार्दूल० ] उच्चैः सोपानपङ्क्तिः शिवगतिगमनं प्राणिनां व्यञ्जयन्ती, साक्षात् श्रीपार्श्वभर्तुश्चरणसरसिजद्वन्द्वसेवापराणाम् । यस्य प्रारब्धसङ्गीतकनिकरलसद्वामपाञ्चालिकाली च्छद्मच्छ्न्नाप्सरोभिर्भृशमुपदिशतः स्वर्गसद्वर्णिकां द्राक् ॥५१॥ [स्रग्धरा ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy