Book Title: Anusandhan 2008 09 SrNo 45
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ २२ यद्देहिनी शुभसतीशतमौलिरत्नं । सा गोरदेरिति जगद्विदिता बभूव ॥ २५ ॥ [ वसन्त०] जाग्रद्भाग्यनिधिः कृताखिलविधिः सत्प्रीतिकृत्सन्निधिः, शुभ्राचारविचारचारुकरणप्राप्तप्रतिष्ठास्पदम् । स्फूर्जत्कीर्तिगणः सहस्रकिरणः सूनुस्तयो: साधुराट्, चित्कोशं प्रतिमागृहं च तुलया मुक्तं मुदा यो व्यधात् ||२६|| [ शार्दूल० ] तस्यादिमा कुंअरिरित्यभिख्या, सोभागदेरित्यभिधा द्वितीया । पत्न्यावभूतां पुरुषोत्तमस्य, रूपे इवाम्भोधिसमुद्भवायाः ||२७|| [ इन्द्रवज्रा ] पूर्वेव पूर्वाऽजनि वर्धमानं, प्रद्योतनं द्योतितभूमिपीठम् । गुणैर्वपुष्मन्तमिव द्वितीया ऽ सोष्टाऽर्जुनांशुं भुवि शान्तिदासम् ॥२८॥ [ इन्द्रवज्रा ] द्वौ भ्रातरौ तावसमौ समीक्ष्य, भाग्योदयै रञ्जितनागरौघौ । अनुसन्धान ४५ वितर्कयन्तीह जनाः पुनः क्षितौ, मुदाऽवतीर्णौ किमु सीरिशार्ङ्गिणौ ॥२९॥ [ इन्द्रवज्रा ] किञ्च वीरमदेवी नाम्ना, धाम्ना देवी च वर्द्धमानस्य । साधोस्तस्य बभूव, प्रिया षडेते च तत्पुत्राः ||३०|| [आर्या०] पौरस्त्यौ (यो) वस्तुपालो भुवि सदुपकृती रायसिङ्घो द्वितीयः, स्फूर्जल्लक्ष्मीस्तृतीयः प्रथितगुणगणश्चन्द्रभाणः प्रतीतः । तुर्य: प्राप्तप्रतिष्ठो विजय इति तथा पञ्चमः सुन्दराख्यः, षष्ठः कल्याणमल्लः कृतसुकृतधियो धर्मिषु प्राप्तरेखाः ||३१|| [स्रग्धरा] पौत्रौ च वस्तुपालस्य, पुत्रौ तस्याऽमितौजसा । अमीचन्द्र- लालचन्द्रौ, सूर्याचन्द्रमसौ यथा ||३२|| [ अनुष्टुप् ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114