Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ १६ अनुसन्धान-४१ तत्ताइ तंबलोहाइं तउयाइं सीसगाणि य । पाइओ कलकलंताई आरसंतो सुभेरवं ॥६९॥ तुहं पियाइं मंसाइं खंडाइं सोल्लगाणि य । खाविओ मि समंसाइं अग्गिवन्नाई णेगसो ॥७०॥ तुहं पिया सुरा सीहू मेरओ य महूणिय । पाइओ मि जलंतीओ वसाओ रुहिराणि य ॥७१॥ (उ. अ. १९) __ अपि च सूत्रकृताङ्गीयद्वितीय श्रुतस्कन्धषष्ठाध्ययनैकोनचत्वारिंशत्तमगाथाटीकायां मांसस्य हिंसामूलत्वामेध्यत्वरौद्रध्यानास्पदत्वादियावन्नरकगतिसाधनत्वाभिधानपुरःसरं तद्भक्षयितू राक्षससमत्वसङ्कलितात्मद्रुहत्वमभिधाय मांसशब्दनिर्वचनप्रकाशनपूर्वकप्रेयवध्याश्रयतुच्छक्षणतृप्तिप्राणवियोगान्तरप्रदर्शनेन मांसादनस्य महादोषत्वं निरूप्य कुशला मांसादनाभिलाषरूपमन्तःकरणं न कुर्वन्तीत्यवगमय्य मांसभक्षणे न दोष इति भारत्या अपि मिथ्यात्वमग्रतःकृत्य मांसाशिनां दुर्गति तन्निवृत्तानां चेहैवानुत्तमश्लाघाऽमुत्र च स्वर्गापवर्गगमनं चेति प्रदर्शितम् । तथा च तत्पाठः "हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद् बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धि पूयाविलम् । शुक्राटुक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥१॥ अपि च, मां स भक्षयिताऽमुत्र, यस्य मांसमिहाऽम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥२॥ तथा योऽत्ति यस्य च तन्मांस-मुभयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते ॥३॥ तदेवं महादोषं मांसदनमिति मत्वा यद् विधेयं तद् दर्शयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70