________________
१६
अनुसन्धान-४१
तत्ताइ तंबलोहाइं तउयाइं सीसगाणि य । पाइओ कलकलंताई आरसंतो सुभेरवं ॥६९॥ तुहं पियाइं मंसाइं खंडाइं सोल्लगाणि य । खाविओ मि समंसाइं अग्गिवन्नाई णेगसो ॥७०॥ तुहं पिया सुरा सीहू मेरओ य महूणिय । पाइओ मि जलंतीओ वसाओ रुहिराणि य ॥७१॥ (उ. अ. १९)
__ अपि च सूत्रकृताङ्गीयद्वितीय श्रुतस्कन्धषष्ठाध्ययनैकोनचत्वारिंशत्तमगाथाटीकायां
मांसस्य हिंसामूलत्वामेध्यत्वरौद्रध्यानास्पदत्वादियावन्नरकगतिसाधनत्वाभिधानपुरःसरं तद्भक्षयितू राक्षससमत्वसङ्कलितात्मद्रुहत्वमभिधाय मांसशब्दनिर्वचनप्रकाशनपूर्वकप्रेयवध्याश्रयतुच्छक्षणतृप्तिप्राणवियोगान्तरप्रदर्शनेन मांसादनस्य महादोषत्वं निरूप्य कुशला मांसादनाभिलाषरूपमन्तःकरणं न कुर्वन्तीत्यवगमय्य मांसभक्षणे न दोष इति भारत्या अपि मिथ्यात्वमग्रतःकृत्य मांसाशिनां दुर्गति तन्निवृत्तानां चेहैवानुत्तमश्लाघाऽमुत्र च स्वर्गापवर्गगमनं चेति प्रदर्शितम् । तथा च तत्पाठः
"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद् बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धि पूयाविलम् । शुक्राटुक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं
को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥१॥ अपि च,
मां स भक्षयिताऽमुत्र, यस्य मांसमिहाऽम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥२॥
तथा
योऽत्ति यस्य च तन्मांस-मुभयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते ॥३॥ तदेवं महादोषं मांसदनमिति मत्वा यद् विधेयं तद् दर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org