Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 36
________________ October-2007 दिने ॥ नान्वयः स हि भेदित्वा न भेदोऽन्वयवृत्तित: । मृद्भेद-द्वयसंसर्ग - वृत्ति जात्यन्तरं घटः ॥ २९॥ "भागे सिंहो नरे भागे, योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ||३०||" "घट - मौलि - सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक- प्रमोद - माध्यस्थ्यं जनो याति सहेतुकम् ॥३१॥" " पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥३२॥" अवोचाम च जिनस्तुतौ "जन्यत्वं जनकत्वं च क्षणस्यैकस्य जल्पता । बौद्धेन युक्ता (क्ति ?) मुक्तीश ! तवैवाऽङ्गीकृतं मतम् ॥३३॥ प्रमाणस्यापि फलतां फलस्यापि प्रमाणताम् । वदद्भ्यां कणभक्षाक्षपादाभ्यां त्वन्मतं मतम् ||३४|| एकस्यां प्रकृतौ धर्मों प्रवर्तन - निवर्त्तने । स्वीकृत्य कापिलाचार्या - स्त्वदाज्ञामेव बिभिरे ||३५|| " अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतम् । एकान्तनित्यानित्यादौ जल्पेन्मिश्रे त्वदोषताम् ||३६|| आत्मानमात्मना वेत्ति स्वेन स्वयं वेष्टयत्यहिः । सम्बन्धा बहवश्चैकत्रेति स्याद्वाददीप (पि) का ||३७|| वैद्यक-ज्योतिषा-ऽध्यात्मा - दिषु शास्त्रेषु बुद्धिमान् । विष्वग् (क्) पश्यत्यनेकान्तं [व]स्तूनां परिणामतः ॥३८॥ द्रव्यषट्केऽप्यनेकान्त- प्रकाशाय विपश्चिताम् । प्रयोगान् दर्शयामास सूरि श्रीराजशेखरः ||३९|| इति स्याद्वादकलिका समाप्ता ॥ संवत् १४६५ वर्षे माघशुदि ७ Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70