Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ October-2007 इति तु पूर्वापरविरुद्धवक्ता स एव प्रष्टव्य इति केचित् । अपरे तु श्रमणोपासकवाक्यं पूर्वापरविरुद्धमपि तदिष्टप्राक्कालिक - जातिबन्धनाभाववन्तो यथा मांसाहारत्यागिनः स्वजातिं प्रवेशयन् तथाऽनार्यदेशपर्यटनादिनाऽभिमतमांसभक्षणानां जातौ सङ्ग्रहीतारः । श्रीमद्धेमचन्द्रसूरिवराधिगतजैनधर्मक्षेत्रपालसविधशरावस्थमांसस्थापकमार्गणपुरःसरशासितनड्डपुरसामन्तकगुरुपदेशवर्जितजैनधर्माङ्गीकारप्राक्कालभक्षितमांसस्मारकघृतपूरककुमारपालचरितं विस्मरन्तो हितं नाऽनुरुध्यन्त इति सूचयितुं कल्पत इति व्याचक्षत । इति शम् ॥ यस्योद्दामप्रमाणप्रवचनतरणिप्रौढभासा विलीने पाखण्डध्वान्तजाले प्रसरति भुवने धर्मपद्मप्रबोध: । लीलावासो गुणानां जनकलुषमषीलेपलोपप्रसक्तो जीयाच्छ्रीवृद्धिचन्द्रोऽतुलगुणमहिमा श्रीलमुक्त्या समेतः ॥ * * * नालीकेष्वङ्कर्चन्द्रैरधिगतगणने वत्सरेऽवन्तिपस्य मासीषेऽमातिथौ यत्स्खलितमिह बुधैर्यत्नतः शोधनीयम् । इत्यभ्यर्थ्य प्रवीणान् कलुषगदभिषक्पार्श्वनाथप्रसादानेम्यानन्दप्रणीता प्रमदयतु परीहार्यमीमांसिकेयम् ॥ ॥ ग्रन्थोऽयं समाप्तः ॥ Jain Education International १९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70