________________
October-2007
इति तु पूर्वापरविरुद्धवक्ता स एव प्रष्टव्य इति केचित् ।
अपरे तु श्रमणोपासकवाक्यं पूर्वापरविरुद्धमपि तदिष्टप्राक्कालिक - जातिबन्धनाभाववन्तो यथा मांसाहारत्यागिनः स्वजातिं प्रवेशयन् तथाऽनार्यदेशपर्यटनादिनाऽभिमतमांसभक्षणानां जातौ सङ्ग्रहीतारः । श्रीमद्धेमचन्द्रसूरिवराधिगतजैनधर्मक्षेत्रपालसविधशरावस्थमांसस्थापकमार्गणपुरःसरशासितनड्डपुरसामन्तकगुरुपदेशवर्जितजैनधर्माङ्गीकारप्राक्कालभक्षितमांसस्मारकघृतपूरककुमारपालचरितं विस्मरन्तो हितं नाऽनुरुध्यन्त इति सूचयितुं कल्पत इति व्याचक्षत । इति शम् ॥ यस्योद्दामप्रमाणप्रवचनतरणिप्रौढभासा विलीने पाखण्डध्वान्तजाले प्रसरति भुवने धर्मपद्मप्रबोध: । लीलावासो गुणानां जनकलुषमषीलेपलोपप्रसक्तो जीयाच्छ्रीवृद्धिचन्द्रोऽतुलगुणमहिमा श्रीलमुक्त्या समेतः ॥
* * *
नालीकेष्वङ्कर्चन्द्रैरधिगतगणने वत्सरेऽवन्तिपस्य मासीषेऽमातिथौ यत्स्खलितमिह बुधैर्यत्नतः शोधनीयम् । इत्यभ्यर्थ्य प्रवीणान् कलुषगदभिषक्पार्श्वनाथप्रसादानेम्यानन्दप्रणीता प्रमदयतु परीहार्यमीमांसिकेयम् ॥
॥ ग्रन्थोऽयं समाप्तः ॥
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org