Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ October-2007 २३ स्यादित्यादि-तदपि न; मांसशब्दस्य स्वयंस्वीकृतफलगर्भविशेषार्थस्याऽस्मरणात् । एतेनाऽर्थः प्रकरणमित्यादिसिध्यत्यन्तमपास्तमवसेयम् । एवं शक्यार्थेनैव निर्वाहे लक्षणाविषयकचर्चाया अनुदय एव । यच्चोक्तं - दशमोद्देशके भोजनपानयोः प्रस्तुतत्वाच्चिकित्साया अभावाच्च न भुजिर्बाह्यपरिभोगार्थो गृह्यते - तदप्यापाततः, अत्रैव पिण्डैषणाप्रकरणेऽप्रस्तुतस्याऽपि विहारस्य कथञ्चित् प्रसक्तेरविरुद्धत्ववन्मांसकर्मकबाह्यपरिभोगार्थस्याऽप्यविरुद्धत्वादिति विभावनीयम् । यच्च - पद्मावती काममञ्जरी वा वृणुष्वेत्यत्रेव सकृदुच्चरितो भुजिर्नाऽभ्यवहारं बाह्यपरिभोगं चाऽर्थं वक्तुं शक्त इत्यादि - तदप्यनुचितम्; एकस्यैव बाह्यपरिभोगार्थस्य टीकाकृता कथनात् । यश्च मर्मजिज्ञासोर्भवतो मांसभक्षण-लेपनदोषतारतम्यप्रश्नस्तत्रेदं विचार्यतेमांसभक्षणं बहुश्रुतविरोधेनाऽऽसक्तिविशेषजनकत्वेन विपाकदारुणत्वेन हिंसामूलकत्वेन च सुतरां परिहार्यम् । अन्यत्तु न सर्वथा तथाविधमिति लूतादिविषमरोगसद्भावापरिहारे सदोषमपि सद्वैद्योपदेशतो न विरुध्यत इत्यादि स्वयमेव 'आयं वयं तुलिज्जा' इत्यादिसिद्धान्तवचनबलेनोहनीयमिति । ____ दृष्टान्तत्वेन जिनकल्पोपादानं भवद्भिः कृतमप्याङ्ग्लभाषावैदग्ध्यदोषतः कायानीकृतभाषान्तरानुसरणतो न तथाऽवगतमिति नाऽस्मदोष इत्यतः प्रहितमुद्रितपत्रतोऽवगन्तव्यम् । एतावता मूल एव पुनरावृत्तेः प्रागपि च सत्यार्थप्रकाशनेनाऽनाग्रहित्वप्रसिद्धिर्भवतां भवेदित्याशास्वहे । एनं विचारमवधार्योचितकरणीयाय भवते ब्रूवो यदि काचिच्छङ्का भवत उदेष्यति तावां भवत्प्रहितं पत्रं तूर्णमवाप्य तद्विनोदाय यतेवहीति । पत्रं तु नीचैस्तने स्थाने प्रेष्यम्तत्र शिरोनाम - 'नेमिविजयानन्दसागरौ' स्थानं - पांजरापोल जैनतत्त्वविवेचकसभामन्त्री-केशवलाल अमथाभाई अहमदाबाद ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70