Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ October-2007 एतदेवंभूतं मांसादनाभिलाषरूपं मनोऽन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषादात्मनो निवर्तयन्तीत्यर्थः । आस्तां तावद् भक्षणं, वागप्येषा यथा 'मांसभक्षणेऽदोष' इत्यादिका भारत्यभिहितोक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति तन्निवृत्तौ चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति । तथा चोक्तम् श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्याऽऽदत् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते मर्त्येषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च" इत्यादि ॥ सूत्रकृताङ्गीयप्रथमाध्ययनद्वितीयोद्देशके परव्यापादितपिशितभक्षणविषयकदोषाभाववादिमतमनुमत्य प्रतिहतत्वकारणककर्मबन्धत्वेनाऽन्योक्तसूक्तोपष्टम्भपूर्वकं तिरस्कृतम् । तथा हि - " यदपि च तैः क्वचिदुच्यते । यथा - परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति, तदप्युन्मत्तप्रलपितवदनाकर्णनीयं, यतः - परव्यापादितपिशितभक्षणेऽनुमतिरप्रतिहताऽस्याश्च कर्मबन्ध इति । तथा चाऽन्यैरप्यभिहितम् - अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च, घातकश्चाऽष्ट घातकाः' १७ " 11 एवं स्थानाङ्गसूत्रे दशस्थानकाख्यदशमाध्ययने यत्र मांसादि तत्र विशिष्टाध्ययनादि न कार्यमिति प्रतिपादितम् । तथा च तत्पाठः Jain Education International दसविहे ओरालिए असज्जाइए पण्णत्ते अट्ठि मंसे सोणिए असुइसामंतं मसाणसामंतं चंदोवराए सूरोवराए पडणे रायवुग्गहे उवस्सवस्सअंतो ओरालिए सरीरे ॥ For Private & Personal Use Only एवमादिनानाविधसिद्धान्तवचनवाचनपरिपूतदर्शनो मांसाद्याहारप्रतिषेधमेव सिद्धान्तानुमतं मन्येतेति निर्विवादमेवेति स्वप्रमादमवधार्य तदुत्थजनमनोविमोहनबाधकं कोविदप्रसिद्धं प्रमादपरिमार्जनमथनमनुष्ठीयेतेति । शिवम् ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70