Book Title: Anusandhan 2007 10 SrNo 41
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४
अनुसन्धान-४१
स्वीकरणीयतया तादृशकारणीभूतज्ञानजनकप्रकरणादिना लवणत्वावच्छिन्नविषयकबोधवद् मांसशब्दतः प्रकरणवशात् स्वयंस्वीकृतफलादिगर्भबोधवद् योग्यस्थले तादृशान्यशब्दजन्यबोधनिष्पत्तिस्वीकारे दोषाभावस्य प्रसिद्धत्वात् तद्विषयकाधिकवर्णनप्रपञ्चेनाऽलम् । .
अपि च सदातनतीर्थङ्करसञ्चारादिपवित्रीकृतमहाविदेहक्षेत्रवर्तमान तीर्थङ्करश्रीसीमन्धरप्रणीतदशवैकालिकद्वितीयचूलिकास्थसप्तमगाथायां मुनीनां मद्यमांसभक्षणं सर्वथा निषिद्धम् । तथाहि
अमज्जमांसासि अमच्छरीय अभिक्खणं निव्विगइगया य
अर्थस्त्वमद्यमांसाशी अमद्यपोऽमांसाशी च, न परसम्पद्वेषी, पुष्टकारणाभावे निर्गतविकृतिपरिभोगश्चेति; जैनसाधुरिति संबध्यते । अत्र च परिभोगोचितविकृतिनिषेधे अभीक्ष्णमिति विशेषणोपादानवत् मद्यमांसभक्षणनिषेधे तदनुपादानादिना जैनसिद्धान्ते कीदृशी मद्यमांसभक्षणनिषेधव्यवस्थाऽस्ति ? तत् स्वयमेवोह्यम् । येन कदाऽप्येतादृशानाङ्करोद्भेदी न भविष्यतीत्याशास्वहे ।
एवमेव सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयाध्ययने मुन्याचारप्रस्तावे द्विचत्वारिंशद्दोषरहिताहाराहारित्वादि प्रतिपाद्य
अमज्जमांसासिणो
इति पाठेनैव सर्वथा स्फुटतरकृतं मद्यमांसभक्षणनिषेधमाकलय्य 'मांसाहारिणः प्राचीनमुनय आसन्नि'ति निःशङ्कं वदतां स्वयंकृताङ्ग्लभाषाविवरणपुस्तकीयनवाद्रिराममितपृष्ठीयतथाविधमद्यमांसभक्षणनिषेधविस्मरणशालिनां मनो विप्रतीसारमियात् । अपि च विवाहप्रज्ञप्त्याख्य(भगवती)सूत्राष्टमशतकनवमोद्देशके गौतमगणधरपृष्टनैरयिकायु:कार्मणशरीरप्रयोगबन्धकारणं भगवता श्रीमहावीरेण मांसाहारः स्फुटं प्रतिपादितः तथा च तत्पाठः –
णेरड्याउयकम्मासरिरप्पओगबंधेणं भंते ॥ पुच्छा - गोयमा ! महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं णेरड्याउयकम्मासरिरप्पओगणामाए कम्मस्स उदयेणं णेड्याउयकम्मासरिरजावप्पओगबंधे ॥
एवमेव स्थानाङ्गसूत्रस्थचतुःस्थानकाख्यचतुर्थाध्ययने मांसभोजनं नरकफलककर्मतयोपवर्णितम् । तथा च तत्पाठः -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70