Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ ६ प्रज्ञापनाउपाङ्गसूत्रम् - २ - १५/१// ४२१ चक्खिदिए घाणिदिए जिब्भिदिए फासिंदिए, सोतिंदिए णं भंते ! किंसंठिए पं० ?, गो० ! कलंबुयापुप्फसंठाणसंठिते पं०, चक्खिदिए णंभंतो! किसंठिते पं० ?, गो० ! मसूरचंदसंठाणसंठिते पं०, घाणिदिए णं भंते! पुच्छा, गो० ! अइमुत्तगतर्चदसंठाणसंठिते, जिब्भिदिए णं पुच्छा, गो० खुरप्पसंठाणसंठिते पं०, पासिंदिए णं पुच्छा गो० ! नानासंठाणसंठिते पं० १ । सोइंदिए णं भंते १ केवइयं बाहल्लेणं पं० !, गो० ! अंगुलस्स असंखेज्जइभागे बाहल्लेणं पं० २,स एवं जाव फासिंदिए सोतिंदिए णं भंते! केवइतं पोहत्तेणं पन्नत्ते !, गो० ! अंगुलस्स असंखेज्जइभागं पोहत्तेणं पं०, एवं चक्खिदिएवि घाणिंदिएवि, जिब्भिदिए णं पुच्छा गो० ! अंगुलपुहुत्तेणं पं०, फासिंदिए णं पुच्छा गो० ! पसरीरप्पमाणमेत्ते पोहत्तेणं पं० ३ । सोतिंदिए णं भंते! कतिपदेसिते पं० ? गो० ! अनंतपदेसिते पं०, एवं जाव फासिंदिए वृ. 'कइ णं भंते! इंदिया पन्नत्ता' इत्यादि, कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, भदन्त ! इन्द्रियाणि प्राग्निरूपितशब्दार्थानि प्रज्ञप्तानि !, भगवानाह - गौतम ! पञ्चेन्द्रियाणि प्रज्ञप्तानि, तान्येव नामत आह- 'सोइंदिए' इत्यादि, एतानि च पञ्चापीन्द्रियाणि द्विधा, तद्यथा- द्रव्यतो भावतश्च, तत्र द्रव्यतो निर्वृत्युपकरणरूपाणि भावतो लब्ध्युपयोगात्मकानि आह च तत्त्वार्थसूत्रकृत'निर्वृत्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियमिति, तत्र निर्वृतिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा - बाह्या अभ्यन्तरा च, त बाह्या पर्प्पटिकादिरूपा, सा च विचित्रा,, न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी, भ्रुवौ चोपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णेचाग्रभागे इत्यादि, जातिभोदान्नानाविधा, अभ्यन्तरा तु निर्वृतिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि, केवलं स्पर्शेन्द्रियस्य निर्वृतेर्बाह्याभ्यन्तरभेदो न प्रतिपत्तव्यः, पूर्वसूरिभिर्निषेधाद्, अत एव च बाह्यसंस्थानविषयमेव तत्सूत्रं वक्ष्यति 'फासिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते इति, उपकरणं खङ्गस्थानीयाया बाह्यनिर्वृतेर्या खङ्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका, अभ्यन्तरा निर्वृतिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृतेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृतौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहिसत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृतावतिकठोरतरघनगर्जितादिना शक्त्ययुपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालब्धिः उपयोगश्च, तत्र लब्धिः - श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः– स्वस्वविषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानमाह । साम्प्रतमाभ्यन्तरां निर्वतिमधिकृत्य संस्थानादि विचिन्तयिषुः प्रथमतः संस्थानं चिन्तयतिसोइंदिए णं भंते! किंसंठिए पन्नत्ते' इत्यादि पाठसिद्धं, अधुना बाहल्यं चिन्तयति - 'सोइंदिए णं भंते! केवइयं बाहल्लेणं पन्नत्ते' इत्यादि, इदमपि पाठसिद्धम्, उक्तश्चायमर्थोऽन्यत्रापि - " बाहलल्लतो य सव्वाइं अंगुल असंखभाग”मिति । अत्राह-यद्यङ्गुलस्यासङ्घयेयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततः कथं खङ्गक्षुरिकाद्यभिघाते अन्तः शरीरस्य वेदनानुभवः ?, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 342